________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[तृतीया यथा व्याख्यातम् । पित्र्यं.श्राद्धोदकतर्पणादि । आतिथेयमतिथेराराधनं भोजनपाद्यादि । ननु च सजात्या स्थितयाऽत्यये नास्त्येव प्रतिषेधः । नैव स्थितयेति तत्र श्रूयते । ऋतुमत्यां सवर्णायां कथंचिद्वाऽसंनिहितायां प्राप्नोति क्षत्रियावैश्यावत् । अपि च नासावधि:
कारे प्रतिषेधः । किं तार्ह आज्यावेक्षणादौ । पत्न्यावेक्षितमाज्यं भवतीत्यङ्गत्वेनोपादी3 यते । पत्नीत्यत्र क्रत्वर्थेषु यया कयाचिदुपात्तया सिद्धिरनियमेन प्राप्ता । यथा वह्वीषु
सवर्णासु यया कयाचित्सवर्णया क्रियते एवमसवर्णयाऽपि मा कारीत्येवमर्थोऽसौ प्रतिषेधः। प्राधान्यमधिकारित्वात् । नाश्नन्ति पितृदेवास्तमिति कर्मनैष्फल्यमाह । न च स्वर्ग स गच्छति यद्यप्यतिथिरश्नाति तत्फलं स्वर्गादि न भवतीतिवर्गग्रहणमतिथिपूजाफलोपलक्षणार्थम् । अनुवादश्च धन्यं यशस्यमित्यादि ॥ १८ ॥
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ॥ तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ १९ ॥
अर्थवादोऽयम्। वृषल्याः फेनो वृषलीफेनो वक्रासवः स पीतो येन पलाण्डुभक्षितादिवत्परनिपातः । पाठान्तरे वृषलीपीतफेनस्य पीत: फेनो यस्येति विग्रहः वृषल्या
पीतफेनः । (तृतीयेति) (व्या. सू. २।१।३०) योगविभागात्समासः। पीतः फेनो वाऽनेनेति १५ विग्रहे वृषल्या इति षष्ठीसमासः ( व्या. सू. २।२।८ )। अर्थस्तु सर्ववृत्तिष्वेक एव ।
संप्रयुज्यमानयोरधरपरिचुम्बनाद्यवश्यंभावितेन च सहचारिणा धर्मेण मैथुनसंबन्धो लक्ष्यते । प्रकरणाच्च विवाहप्रतिषेधशेषोऽयं न पृथग्वाक्यम् । तत्त्वे हि चुम्बनादिवर्ज नियोगधर्मो बहुमतः स्यात् । तस्माद्गच्छञ्छूद्रा चुम्बनादिपरिफेनेन न किंचिच्छास्त्रार्थमनुतिष्ठति । तस्यां चैव प्रसूतस्य ऋतौ तु गच्छत इत्यर्थः । निष्कृतिः शुद्धिर्नास्ति
इति निन्दातिशयोऽयम् । २० यतः संभव एवात्र कैश्चित्सप्तमीपञ्चम्यौ नानुज्ञाते “सप्तमी पञ्चमी चैव मातृतः
पितृतस्तथा" इति अन्यैस्तु "ऊर्ध्व सप्तमात्पञ्चमाच्चतत्र विकल्पलभ्यमाना पञ्चमी न विवाह्या असंभवे तु न दोषः ॥ १९ ॥
चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् ॥
अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत ॥ २० ॥ २५ वक्ष्यमाणस्य संक्षेपोपन्यासः । हिताश्चाहिताश्च केचिद्धिताः केचिन्न । अष्टाविति.
संख्यानिर्देशः । समासः संक्षेपः । स्त्रीसंस्कारार्था विवाहाः स्त्रीविवाहाः । कः पुनरेवं विवाहो नाम उपायतः प्राप्ताया कन्याया दारकरणार्थः संस्कारः सेतिकर्तव्यताङ्गः सप्तर्षि-.. दर्शनपर्यन्तो पाणिग्रहणलक्षणः ॥ २० ॥
For Private And Personal Use Only