SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ॥ कुलान्येव नयन्त्याशु ससन्तानानि शुद्रताम् ॥१५॥ पूर्वस्य प्रतिषेधस्य शेषोऽयं निन्दार्थवादः । हीनजातिः शूदैव तस्या एव प्रकृतत्वात् । ससंतानानि शूद्रतामिति निगमनात्त एते द्विजातयः मोहाद्धनलोभनादविवेकात्कामनिमित्तत्वाद्वा कुलानि शूद्रतां गमयन्ति । तस्यां जाताः पुत्राः शूद्रा भवन्त्ये- ५ वं तत्पुत्रपौत्रा इति । अत उच्यते ससंतानानीति । संतानोऽपत्योत्पत्तिप्रवन्धः पुत्रपौत्रादिः ॥ १५ ॥ शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ॥ शौनकस्य सुतोत्पत्या तदपत्यतया भृगोः ॥ १६ ॥ शूद्रां विन्दति परिणयति शूदावेदी स पतति पतित इव । अत्रिरुतथ्यस्य तनयः १० पुत्रस्तयोरेतन्मतमित्युपस्करः । अयं तावदर्धश्लोकः पूर्वप्रतिषेधशेषः । शौनकस्य सुतोत्पत्त्या शास्त्रान्तरमिदम् । अभ्यनुज्ञाय शूद्रायामृतावुपगमनं निषेधति सुतोत्पत्तिख़्तौ युग्मासु रात्रिषु भवति ऋतौ शूद्रां न गच्छेदित्यर्थः । तदपत्यतया भृगोः । इदमपि स्मृत्यन्तरम् । तान्येव शूद्रोत्पन्नान्यपत्यानि यस्य स तदपत्यः तद्भावस्तदपत्यता । भृगोरेतन्मतं ऋतावप्युपपन्नतरासु जातापत्य उपेयात् । पतितत्ववचनं चात्र निन्दैव न त्वस्य १५ पतितधर्मता पतितस्योदकमित्यादि । एतच्च वक्ष्यामः ॥ १६ ॥ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ॥ जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ १७ ॥ अर्थवादोऽयम् । यदि पुत्रमुत्पादयति तस्यां ततो ब्राह्मण्यादेव हीयते । अपत्यस्याब्राह्मणत्वमिति निन्दैव । सुतमिति च पुल्लिङ्गनिर्देशात्सुतोत्पत्तेरित्यत्र समानसंहि- २० तत्वेऽपि पुत्रोत्पत्तिरवाभिप्रेता । तथा च दर्शितं "युग्मा रात्रयो वाः" इति ॥ १७ ॥ देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ॥ नाश्नन्ति पितृदेवास्तन्न च स्वर्ग स गच्छति ॥ १८ ॥ सार्वकालिकोऽयं निषेधः । यदि कथंचिच्छूद्राऽपि व्युह्यते तदैतानि कर्माणि तत्प्रधानानि न कर्तव्यानि । न च तया सह त्रैवर्णिकस्त्रीवद्ध मेंऽधिकारोऽस्तीत्यर्थः । २५ भार्यात्वादधिकारे प्राप्ते निषेधेोऽयम् । अतः स्वधर्मे धनं विनियुञ्जानस्य न तदीयानुज्ञोपयुज्यते यथा द्विजातिस्त्रीणाम् । अन्यत्र त्वर्थकामयोः साऽप्यनतिचरणीयैव प्रेप्यावत्तत्कर्मोपयोगो न निषिध्यते श्राद्धादाववहननादिकार्ये तत्र न दोषः स्यात् । परिवेषणादि न कारयितव्या । तत्र दैवं कर्म दर्शपूर्णमासादि देवतोद्देशेन च ब्राह्मणभोननं व्रतवदित्यत्र समाससंहितत्वति समीचीन: पाट . . For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy