________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः स्तावत्प्रतीयते । असवर्णाभ्यनुज्ञानेनाप्यतिक्रान्तं चेत्कः सवर्णाया निषेधकः । तथा गौतमेनाविशेषेणैव पठितम् " अन्यतरापाये तु कुर्वीतेति " । उत्तर श्लोके " सा च स्वा चेति " सवर्णाविवाहोऽस्ति । १२ ।
शुदैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ॥ ते च स्वा चैव राज्ञश्च ताश्व स्वा चाग्रजन्मनः ॥ १३ ॥
वर्णभेदे सति सवर्णानियमो यथैव ब्राह्मणस्य क्षत्रियादिस्त्रियो भवन्ति एवं शूद्रस्य जातिन्यूना रजकतक्षकादिस्त्रियः प्राप्ताः । अतः सवर्णेयमुच्यते । उत्कृष्टजातीया तु पूर्वत्र
क्रमग्रहणादप्राप्ता । सा च शद्रा स्वा च वैश्या वैश्यस्य । ते च वैश्याशद्रे स्वा च १० राजन्यस्य । एवमग्रजन्मनो ब्राह्मणस्य क्रमेण निर्देशे कर्तव्ये शूद्रप्रक्रमेण निर्देशः पूर्वोक्तमेवार्थ उपोद्दलयति । यदुक्तं "विकल्प आनुपूर्येण नावश्यं समुच्चयः" ॥ १३ ॥
न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः॥ कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ १४ ॥
यद्यप्यत्यन्तरूपवती शूद्रा विप्रराजन्यौ च वीरप्रकृती दशमीमपि दशामश्नुवीयातां १५ तथापि शूद्रां नाधिवोढारौ । अत्रार्थवादः । कस्मिंश्चिदपि वृत्तान्ते न क्वचिदितिहासोपाख्याने
ऽप्युपदिश्यते वर्ण्यते । आपदि गरीयस्यामधिकायामापदि पूर्वत्रानुज्ञाताऽनेन प्रतिषिद्धा अतो विकल्पः ।
ननु च शास्त्रलक्षणयोरेकविषयसंनिपाते षोडशिग्रहणाग्रहणवद्विकल्पो युक्तो न तु रागलक्षणायाः प्रवृत्तेर्निषेधेन ।न च शूद्रा शास्त्रलक्षणा केवलं रागतस्तत्र प्रवृत्तिरप्रति. २० पिद्धति पूर्वशास्त्रस्यार्थः । निषेधस्तु शास्त्रलक्षण इत्यविवाद्यैव शूद्रा । एतदेवाभिप्रेत्य
याज्ञवल्क्येन पठितम्(आचारे५६)“यदुच्यते द्विजातीनां शूद्रादारोपसंग्रहः । न तन्मम मत. मिति । अत्रोच्यते । सर्वत्रोपदेशानर्थकतयैव विकल्प आश्रीयते । यदि चात्यन्तमेव शूद्राप्रतिषेधः स्यात्तदा क्षत्रियवैश्ये एव प्रतिप्रसूयेयाताम् । आपद्यभ्यनुज्ञाने प्रतिप्रसवशास्त्रमयं
च प्रतिषेधः द्वयमपि व्यर्थं स्यात्सवाया नियमेन सिद्धत्वात् । तदिदमनुज्ञातं प्रतिषेध-२५ श्चास्वविरुध्यमाने विकल्पते । ननु च विकल्पे कामचारस्तस्य च प्रतिप्रसवत एव सिद्ध:
प्रतिषेधो वक्तव्यो नैव । न यथाकामतः क्षत्रियावैश्ययोर्विवाह एवं शूद्राया अन्यत्रापदो गरीयः स्यात् । इदं तु प्रतिपत्तुं युक्तं यत्सवर्णानियमेनासवर्णानिवृत्तेरर्थतः कृतायाः पुनः शूद्रानिवृत्तिरसवर्णानिवृत्तेरनित्यत्वं ज्ञापयति । अनित्यत्वे चार्पदि सवर्णाया अलाभे वा
भवति चायमवगमः शूद्रा न वोढव्या इतरे तु वोढव्ये ॥ १४ ॥ ... १ ड सवणायामुपलभ्यमानायां क्षत्रियवैश्य ऽपि वोढब्धे अतश्च गार्हस्थ्योन्मुखभितस्य । .
For Private And Personal Use Only