________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः अव्यङ्गाङ्गी सौम्यनाम्नी हंसवारणगामिनीम् ॥ तनुलोमकेशदशनां मृदंगीमुद्रहेस्त्रियम् ॥ १०॥
अव्यङ्गान्यङ्गानि यस्या सैवमुच्यते । अव्यङ्गशब्दोऽवैकल्यवचनः प्रवीणोदारादिशब्दवद्यद्यपि व्युत्पाद्यते विकलान्यङ्गानि यस्येति अतश्चाङ्गशब्दस्य द्वितीयस्यावयविनि शक्ततौचित्येन संस्थानस्य परिपूर्णता साऽव्यङ्गशब्देनोच्यते । सौम्यं मधुरं नाम स्त्रीणां सुखोद्यमत्र दर्शितम् । हंस इव वारण इव गच्छति यादृशी हंसानां हस्तिनां च विलासवती मन्थरा गतिर्यस्याः । तनुशब्दो नाल्पवचनः किंतानुपरिभावे वर्तते तन्वङ्गी सोच्यते । नातिस्थूला नातिकृशेति । मृदूनि सुस्पर्शा कठिना परुषाण्यङ्गानि यस्याः सा ।
तामुद्देत्स्त्रियं कन्याधिकारात्कन्याम् । यद्येवं नालोमिकामित्यादिप्रतिषेधोऽनर्थकोऽस्मादेव १० विधानात् या नैवरूपा तस्या अविवाह्यता सिद्धा। सत्यमेवं एक एवार्थो द्वाभ्यां विधिमुखेन
प्रतिषेधमुखेन चोद्यमानस्तु स्पष्टो बुध्यते । कन्याशब्दश्चात्र प्रकरणादननुभूतसंभोगासु स्त्रीषु प्रवर्तते । तथा च वसिष्ठः " अस्पृष्टमैथुनां सदृशी भार्या विन्देतेति "। न चान्येन संस्कृताऽन्येन पुनः संस्कत शक्या कृतस्य करणाभावात् । अतश्चोढाया
अप्रवृत्तभर्तृसंयोगायाः कथंचित्स्वैरिणीत्वे भर्तप्रवासादिना नान्येन विवाहोऽस्ति सत्यपि १५ कन्यात्वे । तथा चेदृशी वसिष्ठोक्तिर्मध्ये पठिता । अन्यत्राप्युक्तम् (याज्ञ. व. आ. ५२) अनन्यपूर्वी यवीयसी भ्रातृमती स्त्रियमुद्वहेत" इति ॥ १० ॥
यस्यास्तु न भवेदाता न विज्ञायेत वा पिता ॥ नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ ११ ॥
यस्या भ्राता नास्ति तां न विवहेत्पुत्रिकाधर्मशङ्कया। पुत्रिकात्वशङ्कया पुत्रिकाधर्मः २० कदाचिदस्याः कृतो भवेत्पित्रेत्यनया शङ्कया अनेन संदेहेन । कथं चेयं शङ्का भवति यदि न
विज्ञायेत पिता देशान्तरे प्रोषितो मृतो वा सा च मात्रा पितृसपिण्डैर्वा दीयते।प्राप्तकाला पितर्यसंनिहित एतैरपि दातव्येति स्मयते । स्मृतिं चोत्तरत्र दर्शयिष्यामः । पितरि तु संविज्ञायमाने नास्ति पुत्रिकात्वशङ्का । स हि स्वयमेवाह "कृता वा न कृता वेति"। वाशब्दश्वेच्छ
ब्दार्थे द्रष्टव्यः । यदि पिता न विज्ञायेत तदा कन्यका न वोढन्या। अन्ये त स्वतन्त्रमेत२५ त्प्रतिषेधद्वयमाचक्षते । यद्यपि पिता न विज्ञायते अनेनेयं जातेति गूढोत्पन्नायाः
प्रतिषेधः । एवं च संबन्धः । यस्या भ्राता नास्ति तां पुत्रिकात्वशङ्कया नोपयच्छेत ___ न विज्ञायत इत्यत्र पुत्रिकाशङ्कयेत्येतन्न संबध्यते । अस्मिन्प्रकरणे यत्र नास्ति दृष्टगतः
१ फ-प्राप्तकालाऽपि २ अ फ ख-उत्तरतो
For Private And Personal Use Only