SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९५ अध्यायः ] मनुस्मृतिः। हीनक्रियं निष्पुरुषं निश्छन्दोरोमशार्शसम् ॥ क्षय्यामयाव्यपस्मारिश्चित्रिकुष्टिकुलानि च ॥७॥ हीनास्त्यक्ताः क्रिया यस्मिन् कुले जातकर्मादयः । संस्कारा न क्रियन्ते नित्याश्च पञ्चयज्ञादयः । निष्पुरुषं स्त्रीप्रसु यत्र प्रायेण कन्या जायन्ते न पुमांसः । निश्छन्दः वेदाध्ययनवर्जितम् । रोमशार्शसम् द्वन्द्वैकवद्भावेन कुलद्वयं निर्दिष्टम् । बहुदीर्वाह्वादिषु ५. लोमभिर्युतम् । अशांसि गुदेन्द्रियगतान्यधिमांसनिबद्धानि तानि हि रोगरूपत्वात्पीडाकराणि । क्षयो राजयक्ष्माव्याधिः । आमयावी मंदाग्निर्यस्य भुक्तमन्नं सम्यन जीर्यति । अपस्मारः स्मृतिभ्रंशाधुपघातकृत् । श्वित्रं शरीरगता च्छेदवती श्वेतता । कुष्ठं प्रसिद्धम् । सर्व एते व्याधिविशेषवचनाः शब्दा रोमशादारभ्य मत्वर्थीयप्रत्ययान्ता निर्दिष्टाः । पूर्वैयाख्यातृभिर्दृष्टमूलताऽस्य प्रतिषेधस्य वर्णिता । मातुः कुले द्विपदोऽनुहरन्ति । ततो १० हीनक्रियादीनां या प्रना साऽपि तच्छीला स्यात् । व्याधयश्च संक्रामन्ति । एवं हि वैद्यके पठ्यते " सर्वे संक्रामिणो रोगा वर्जयित्वा प्रवाहिकाम् " ॥ ७ ॥ नोव्हेत्कपिलां कन्यां नाधिकाङ्गी न रोगिणीम् ॥ ___नालोमिका नातिलोमा न वाचाया न पिङ्गलाम् ॥ ८ ॥ पूर्वः कुलाश्रयः प्रतिषेधः । अयं तु स्वरूपाश्रयः । यस्या असुवर्णाः कनकवर्णा १६ वा केशाः सा कपिला । अधिकाङ्गी षडङ्गुलिः । रोगिणी बहुरोगा दुष्प्रतिकारव्याधिगृहीता च । भम्नीनि मत्वर्थीयो नित्ययोगे वा । अलोमिका अकेशा । लोमानि केशा अप्युच्यन्ते । बाहुमध्ये जङ्घाद्वये वा सर्वलोम्नामभावः । वाचाला स्वल्प एव वक्तव्ये बहुलं परुषं च भाषते । पिङ्गला अक्षिरोगेण मण्डलाक्षी कपिलपिङ्गलाक्षी वा ॥८॥ नविक्षनदीनाम्नी नान्त्यपर्वतनामिकाम् ॥ न पक्ष्यहिप्रेष्यनाम्नी न च भीषणनामिकाम् ॥९॥ ऋक्षं नक्षत्रं तन्नामिका आर्द्रा ज्येष्ठा इत्यादि । वृक्षनाम्नी शिंशपा आमलकीति । नदी गङ्गा यमुना तन्नाम्नी । ऋक्षाणि च वृक्षाश्च नद्यश्चेति द्वन्द्वः तासां नामानीति षष्ठीसमासः । ततो द्वितीयेन नामशब्देनोत्तरपदलोपी समासः । अन्त्यनामिका बर्बरीशबरीत्यादि । पर्वता विन्ध्यमलयादयः पूर्ववत्समासात्कप्रत्ययः । पक्षिनाम्नी शुकी २१ सारिका । अहिः सर्पस्तन्नाम्नी । व्याली भुजङ्गी । प्रेष्या दासी चेटी वाली । विभीषणं नाम भयजनकं डाकिनी राक्षसी ॥९॥ १ मत इनिठनी (व्या. सू. ५।२।११५ ) २ [ नातिस्थूला नातिकृशा न दीर्घा नातिवामनाम् ॥ वयोऽधिका नाहींना न सेवेत्कलहप्रियाम् ॥] इत्यपरः पाठः For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy