________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४ मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः रन्वयस्त्रीणामन्यासां च प्रपितामहसंततिस्त्रीणामा सप्तमात्पुरुषात्प्रतिषेधः सिद्धो भवति । सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते ।
अन्ये तु गोत्रं वंशमाहुः । न तत्रावध्यपेक्षा यावदेतज्ज्ञायते वयमेकवंशा इति तावदविवाहः । अस्मिन्नपि पक्षे असपिण्डा चेत्यनुवर्तते । तेन पूर्वत्पितृप्वस्त्रादिदुहितॄणां प्रतिषेधः । अस्मिंस्तु पक्षे समानार्षगोत्राणां प्रतिषेधो दुर्लभः । न हि तत्रैतदस्ति वयमेकवंश्या इति । उच्यते । ऐतिहासिकेन तदर्शनेन समर्थयन्ते । तत्र हि वर्णयन्ति । "ऋषिर्वसिष्ठादिराद्यो वंशस्य कर्ता तद्गोत्रास्ततः प्रसूताः प्रवरा" इति तत्पुत्रपौत्रास्तपोविद्याचतिशयगुणयोगेन प्रख्याततमाः । स्मृत्यन्तरादेष एव नियमः । इदं त्वत्र निरूप्यं यदे
तत्समानप्रवरैरिति तत्र नामधेयतस्तावत्समानत्वं न संख्यातः । नामधेयसमानत्वे च कि १० यत्र सर्वाण्येव समानानि तत्र प्रतिषेध उतैकस्मिन्नपि समाने । तत्र यदि समुदितानां
प्रवरत्वं तत्र समाने कस्मिंश्चिद्भिन्नेऽन्यस्मिन्नन्यः समुदायः संजात इत्यसमानप्रवरत्वाच्च प्रतिषेधः । एवं चोपमन्यूनां पराशराणां च स्याद्विवाहः भिन्नं तयोगोत्रम् । एक उपमन्यवः अपरे पराशराः पूर्वेण च न्यायेन प्रवरभेदः । उपमन्यूनां वासिष्ठभारद्वानैक
पादिति प्रवराः । पराशराणां वासिष्ठगायेपाराशर्येति । अथैकैकस्य प्रवरत्वमेकस्मिन्नपि १५ समानप्रतिषेधः । तद्यथा माषा न भोक्तव्या मिश्रा अपि न भुज्यन्ते । किं पुनरत्र
युक्तम् एकैकस्य प्रवरत्वम् । तथाहि सामानाधिकरण्यं दृश्यते । एकं वृणीते द्वौ वृणीते त्री-वृणीत इति प्रतिपन्न एकः । तत्साम्येऽप्याहैषामविवाह इति ।
द्विजातिग्रहणमुपलक्षणार्थम् । शूद्रस्यापि आ सप्तमात्पितृतः इत्यद्यस्ति । दारकरणं दारक्रिया दारकर्म तत्र प्रशस्ता प्रशंसया विहितेत्यर्थः । मैथुनी मिथुने भवा मैथुनी, न मैथुनी अमैथुनी । पितुरिति संबध्यते । पितृबीजादेवोत्पन्ना जातमात्रा । नियोगो विहितस्तत उत्पन्नाया नास्ति पूर्वोक्तविशेषणैर्निषेधः । अतः पृथनिषिध्यते अमैथुनीति ततो नियोगोत्पन्ना कामतो न विवाह्या मैथुनीत्वात् । अन्ये तु अमैथुने इति पठन्ति । धर्मार्थे दारकर्माण प्रशस्ता न मैथुने स्तुतिश्चेयं न प्रतिषेधः । ईदृशी योढा सा सत्यपि मैथुने धर्मार्थैव भवति ॥५॥
महान्त्यपि समृद्धानि गोजाविधनधान्यतः ॥ स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ६॥
वक्ष्यमाणस्य प्रतिषेधस्य निन्दार्थवादोऽयम् । समृद्धिः सम्पत्तिः । धनं विभवः । महान्त्यपि प्रकृष्टान्यपि। धनविशेषणार्थमाह गोजाविधनधान्यतः। तृतीयार्थे तसिः। गोजाविधनेन च धान्येन च । धनग्रहणं गाजादीनां विशेषणर्थम् । धनरूपा ये गोजादयः। क्टसंपन्नता हि धान्यम् । स्त्रीसम्बन्धी विवाहः स्त्रीप्राप्त्यर्थं संबन्धः स्त्रीसंबन्धः ॥ ६ ॥
२०
२५
For Private And Personal Use Only