________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः। सप्तमात्पितृबन्धुभ्यो मातृबन्धुभ्यः पञ्चमादिति " । तेन यथाश्रुति समन्वयाभावात्सापिण्डयाभावः स्मृत्यन्तरवशेन मातृसंबन्धितया व्याकरणीयः । तेनैवमुक्तं स्यात् मातुरन्वयजा या न भवति अवधिश्च गौतमीय एव तेन मातामहीमातामहयोर्याऽन्वये जाता सा पुत्रसंततेर्बान्धवसामीप्यात्पञ्चमी यावन्न विवाहयितव्या । अतो मातृष्वमृतदुहितॄणां प्रमातामहीसंततिजानां च सर्वासां प्रतिषेधो बन्धुत्वाविशेषात् ।।
असगोत्रा च या पितुः। गोत्रं वसिष्ठभृगुगर्गादिवंशः स्मर्यते । समानगोत्रा वसिष्ठा न वसिष्ठैर्विवहन्ते न गर्गा गर्गः । वासिष्ठे तु मातृसगोत्राया अपि प्रतिषेधः । " परिणीय सगोत्रां तु समानप्रवरां तथा । कृत्वा तस्याः समुत्सगैद्विनश्चान्द्रायणं चरेत्"।
“ मातुलस्य सुतां चैव मातृगोत्रां तथैव च" ॥
गौतमेन तु पठ्यते ( अ. ४ सू. २ ) " असमानप्रवरैर्विवाह " इति । तत्र १० गोत्रसमत्वे सत्यपि प्रवरभेदश्चेद्युज्यते विवाहः । यतः स्मृत्यन्तरे ह्युभयं निषिध्यते "असमानापगोत्रजामिति ( याज्ञ. व. आ. ५३)" आर्ष प्रवर इत्येकोऽर्थः । कथं पुनर्गोत्रमेदे समानार्षेयत्वम् । किमिति न भवति यदि स्मयते श्रुतिस्मृतिप्रमाणकोऽयमों न प्रत्यक्षगोचरो येन विरोधः स्यात् । के पुनरमी प्रवरा नाम । अत्यल्पमिदमुच्यते इदमपि वक्तव्यं किं पुनरेतद्ब्राह्मणत्वं नाम तथा कतरदेतद्गोत्रं नाम । यथैव समाने पुरुषत्वे १६ ब्राह्मणत्वादिविशेषः एवं समाने ब्राह्मणत्वे वसिष्ठादिगोत्रभेदः प्रतिगोत्रं च समानार्षेयाणि । यस्यैतद्गोत्रं तस्य तैः शब्दैः प्रवराश्रयणं कर्तव्यम् । एवं विवाहनिषेधेऽपि स्मरन्ति च सूत्रकाराः गोत्रभेदसंबन्धेन प्रवरान् यस्यैतद्ोत्रं तस्येमे प्रवरा" इति । गोत्रभेदस्तु तद्गोत्रमेरेव स्मयते वयं पराशरा वयमुपमन्यव इति । यद्यपि गोत्रवत्प्रवरानपि स्मरन्ति तथापि बहुत्वात्कदाचिद्विस्मरेयुरिति गोत्रमुपलक्षणीकृत्य प्रवरस्मृतिरुपनिबद्धा । गोत्रं तु स्मरन्ति। २० न च तस्य किंचिदुपलक्षणमस्ति । य एवंरूपस्तस्येदं गोत्रंमिति । एतावत्तत्र स्मरणम् । यावद्गोत्रं संततिः समानजातीयत्वम् । एष च गोत्रप्रवरभेदः ब्राह्मणराजन्यविशाम् । तथाहि कल्पसूत्रकारः " पौरोहित्याद्राजन्यवैश्ययोरिति” ।
यद्यपि गोत्रविशेषव्यपदेशे सति प्राप्तप्रतिषेधेनापि प्रवराधिकारे वचनमिदमुपपद्यते किं तु न तेषां गोत्रस्मरणमस्ति । कस्तर्हि क्षत्रियवैश्ययोर्विवाहेऽपि बन्धूनामवधेर्नियमः । २९ उच्यते। सर्ववर्णविषयमेतत् "ऊर्ध्व सप्तमात् पितृबंधुभ्यः" इति । इहाप्यसगोत्रा । च शब्दादप्सपिण्डा । तथा चानुवय॑मानः सपिण्डशब्दः पूर्ववद्वन्धुसम्बन्धोपलक्षणार्थः । तेन पितृष्वसु
For Private And Personal Use Only