SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ मेधातिथिभाष्यसमलंकृता । [ तृतीयः यस्या विवाहसंस्कारः क्रियते न चक्षुष इवाञ्जनसंस्कारः । किं तर्हि निर्वय॑ते विवाहेन ? यथा यूपं छिनत्तीति छेदनादयः संस्कारा यस्य क्रियन्ते स यूपः एवं विवाहेनैव भार्या भवतीति । विवाहशब्देन पाणिग्रहणमुच्यते । तच्चात्र प्रधानम् । एवं हि स्मरन्ति "विवाहनं दारकर्म पाणिग्रहणमिति" । इहापि वक्ष्यति (श्लो.४ ३) "पाणिग्रहणसंस्कार" इति लाजहोमाद्यङ्गम् । तच्च गृह्यादखिलं ज्ञातव्यम्। “नोद्वहेत्कपिलां कन्यामिति" (श्लो.८) कन्याग्रहणात्कन्याया अयं संस्कारो न स्त्रीमात्रस्य । कन्याशब्दश्चात्र प्रकरणेऽप्रवृत्तपुंसंप्रयोगायां योषिति वर्तत इति वक्ष्यामः। सवर्णा समानजातीयाम्। लक्षणान्विताम् । लक्षणानि अवैधव्यप्रजाधनसूचकानि वर्णरेखातिलकादिचिह्नानि ज्योतिःशास्त्रावगम्यानि तैरन्वितां युक्तां शुभ लक्षणान्वितामित्यर्थः । यद्यप्यनिष्टसूचकमपि लक्षणं भवति किंतु सूचकैरेव शास्त्रैस्तादृशीं १० विवाहयेत् अतः प्रशस्तलक्षणा लक्षणवती द्रष्टव्या । अभिप्रेतसूचक एव लक्षणशब्दो लोके प्रयुज्यते । सलक्षणोऽयं पुरुषः सलक्षणा स्त्रीति या शुभलक्षणा सैवमुच्यते । ___ तत्राधिकारचिन्ता कर्तव्या । संस्कारविधित्वादेवाधानवदनुष्ठानलाभात् यथैव ह्याधानमाहवनीयादिद्वारेण नित्यकाम्यकोपयोगि तदङ्गाहवनीयादिनिवृत्त्यर्थमनुष्ठीयते एवं विवाहोऽपि भार्यानिवर्तकत्वेन दृष्टादृष्टपुरुषार्थोपयोगित्वात् । तथाहि खेदात्पुंसः स्त्रीमात्रे १५ विषयाथै प्रवृत्तौ प्रसक्तायां कन्यापरदारनिषेधात्स्वदारेषु कामिनः खेदनिवृत्तिः। “सहधर्मश्चरितव्यः" इति तया सह सर्वधर्मेष्वधिकाराददृष्टपुरुषार्थसिद्धिस्तदधीना। ___ अत्र केचिन्मीमांसन्ते-रागिणः । पूर्वोक्तेन प्रकारेण दृष्टसिद्धयर्थं विवाहं स्वतः कुर्वन्ति तेषां च कृतविवाहानां संभवेत्स द्विजातिकर्मविधित्वेन कर्मानुष्ठानसिद्धयर्थो विवाहः । यस्य कथंचित्स्त्रीनिष्ठा निवृत्ता न तस्य विवाहः । असति विवाहे कौनधि: २० कारादनधिकृतस्य चाननुष्ठाने दोषाभावात्पुरुषार्थानुष्ठानान्यनुतिष्ठतो नाश्रमिणोऽप्यवस्था नमविरुद्धम् । तदेतदसत् । यथैव कामः पुरुषार्थस्तथैव धर्मोऽपि पुरुषार्थत्वे प्रयोजकः । सर्वोऽपि पुरुषार्थसिध्द्यर्थं प्रवर्तते । यदि चैतदेवं स्यात्संवत्सरमनाश्रमी भूत्वेत्यादि नोपपद्यतेति । निपुणं चैतदाश्रमविकल्पावसरे षष्ठे निर्णेष्यामः ॥ ४ ॥ __ असपिण्डा च या मातुरसगोत्रा च या पितुः॥ सा प्रशस्ता द्विजातीनां दारकर्माण मैथुने ॥५॥ यादृशी कन्या वोढव्या तामिदानीं दर्शयति । मातुर्याऽसपिण्डा पितुश्च याs सगोत्रा सा दारकर्मणि प्रशस्ता । सपिण्डग्रहणं मातृवन्धूपलक्षणार्थम् । मातुर्हि सापिण्डयं स्त्रीणां स्मृत्यन्तरे तृतीयपुरुषावधि । न तु त्रिभ्य ऊर्ध्वं मातृबन्धुभ्यो विवाह इष्यते । किं तर्हि ? पञ्चमादूर्ध्वम् । एवं हि गौतमः पठति (अ. ४ सू. ३) । “ ऊर्च For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy