________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१
अध्यायः ]
मनुस्मृतिः । न चाधिकारान्तरतः प्रवृत्तस्यानतिरुपयुज्यते । तेनायं दक्षिणाशब्द आनमनार्थाभावादद्धिरण्यदानवददृष्टार्थदानोपलक्षणार्थो विज्ञेयः । पित्रैव चासौ तावता धनेन स्वामी कर्तव्यो येन वरदानमस्य संपद्यते । अथायमाग्रहो नानत्यर्थाहानादृते दक्षिणाशब्दस्योपपत्तिः । न वा मुख्य सति लक्षणा न्याय्येति । एवं तर्हि यस्य पिता न तत्स्थानीयो नाचार्यः स यदाऽऽत्मानमुपनयेत् सत्यकामवत्तद्विषयो दक्षिणाविधिर्भविष्यति । तस्यापि ५ चेषदपेतशैशवस्यात्मसंस्कारायास्त्येवाधिकार इति प्रतिपादितम् । तस्मादुभयथा पितुरधिकारः । स्वयमुपनयमानस्यान्यमाचार्यमुपाददानस्य वा ।
प्रतीतमभिमुखीभूतं गृहाश्रमप्रतिपत्तौ न तु नैष्ठिकं समाप्ताध्ययनविध्यर्थमपि ग्रामप्रतिपत्तौ। स्रग्विणं यावन्तः केचन गृह्यकारैर्मधुपर्ककर्मणि धर्मा आम्नातास्तेषां प्रदर्शनार्थमेतत् । तल्प आसीनं महार्हपर्यङ्कशयनोपविष्टम् । गवा मधुपर्केण । मधुपर्केऽसौ विधिः पाक्षिक १० आम्नातः । अतो गोशब्देन तत्साधनकर्मविशेषो लक्ष्यते । अर्हयेत् पूजयेत् । अधिकारात्पिताऽऽचार्यो वा । प्रथमं पूर्वविवाहात् । पूजाधिकारार्ह शयानं प्रतीतं स्वधर्मेणेत्यनुवादः । स्वधर्मेण ब्रह्मदायहरं स्वधर्मेण चाहयेदिति संवन्धे न विशेषः ॥ ३ ॥
गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि ॥
उदहेत द्विजो भायों सवर्णी लक्षणान्विताम् ॥ ४॥ १५ सत्यामपि वेदव्रतसमाप्तौ गुरुणाऽनुमतः अभ्यनुज्ञातः स्नायात् । नानशब्देन गृह्योक्तसंस्कारविशेषो लक्ष्यते । ब्रह्मचारिधर्मावधिः । यथा चात्र लक्षणा तथा प्राग्व्याख्यातम् । तदहरेव गृह्यकारोक्तं कश्चिन्मधुपर्कपूजाविहितसंस्कारं प्राप्य समावृत्तो गुरुकुलात्पितृगृहं प्रत्यागत इत्यनुवादः । उद्वहेतेत्येतद्विधिशेषमेतत्सर्व प्राप्तमेव न तु समावर्तनं विवाहाङ्गम् । तेन यः पितृगृह एवाधीतवेदस्तस्य समावृतस्य संभवत्येव २० विवाहः । केचित्समावर्तनं विवाहाङ्गं स्नानं मन्यन्ते। क्त्वाश्रुत्या भेदप्रतिपत्तिरिति चेदेवं तर्हि समावर्तनं विवाहाङ्गं स्नानसंस्कारं वक्ष्यति सविशेष हि तत्र स्नानमाम्नातमेव " स्नातकेनेत्यादि ।
अथवा यमनियमत्यागाभिप्राय समावृत्तिवचनम् । समावृत्तः प्राक्तनीमेवावस्था नियमरहितां प्रतिपन्न इत्यर्थः । विशेषाभिप्रायं च नियमत्यागवचनम् । ब्रह्मचारिणो हि सातिशया यमनियमा न तथोत्तरेषाम् ।
यथाविधीति स्वधर्मेणेतिवत् । उद्वहेत द्विजो भार्या उद्वहेतेति विवाहविधिः संस्कारकर्मविवाहो भार्यामिति द्वितीयानिर्देशात् । न च प्राग्विवाहादायों सिद्धाऽस्ति
१ क्षत-ननु । २ क्षड-तस्य समावृत्त्यसंभवोऽपि हि भवति ।
For Private And Personal Use Only