________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१९०
मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः
1
स्तथापि पित्राऽऽचार्येण वाऽनुष्ठाप्यते । वस्तुतस्तयोरेवाधिकारोऽपत्यानुशासने पितुरधिकारोऽपत्योत्पत्तिविधौ तावताऽभिनिर्वर्त्यत्वात् । अनुशासनं च विधिनिषेधाधिकारद्वयप्रतिपादनम् । तत्र यत्प्रतिपाद्यमानोऽपि नावबुध्यते तदन्ध इव हस्तग्राहिकया कार्यते । यथाऽग्निसंस्पर्शकूपादिपाताद्गाढहस्तावष्टम्भो धार्यत एवमदृष्टादपि मद्यपानादेर्यथा वाऽनिच्छन्नौषधदानादौ ५ प्रवर्तते एवं शास्त्रीयेष्वपि पदार्थेषु यदा त्वीषव्युत्पन्नस्तदैवं नियुज्यत 'इदमिदं कर्तुमर्हसीति' । एवं सत्यधीतवेदो माणवकः पित्राचार्येणैवैवं प्रतिबोधयितव्यो "गृहीतवानसि वेदं त्वमिदानीं तदर्थजिज्ञासायामधिक्रियते ततस्तदङ्गानि श्रोतु मर्हसीति" । एतावता पितुरपत्योत्पादनाधिकारनिवृत्तिः । तदुक्तं कियता पुनरुत्पादितो भवति यावता स्वयमधिगतकृत्यो भवतीति । अतः स्थितमेतत् नाधीत्यैव विवाहो यावद्वेदार्थो नाधिगतः । एवं च पदयोजना कर्तव्या । १० अधीत्याध्ययने निवृत्तेऽप्यविप्लुतब्रह्मचर्यः स्यात् । प्राप्तायां च निवृत्तौ पुनर्वचनं नियमान्तराणां मधुमांसवर्जनादीनां निवृत्तिपरम् । तेन यावदध्ययनं तावत्सर्वे नियमा अनुष्ठा तव्याः। समाप्ते त्वध्ययनेऽर्थावबोधकाले स्त्रीनिवृत्तिरेव । ब्रह्मचर्यशब्दो यद्यपि ब्रह्मग्रहणार्थं यद्व्रतग्रहणं तत्र व्युत्पाद्यते तथापि स्त्रीनिवृत्तिपर एवास्य तत्र प्रयोग इति दर्शयिष्यामः । यथाक्रमं य एवाध्येतॄणां पाठक्रमः प्रसिद्धस्तेनैव प्रथमं चतुःषष्टिस्ततो ब्राह्मणं पितृपितामहा१५ द्यभिजनप्रवन्धोपक्रमं भवति । न हीदृशेऽर्थे वक्तारो न कुलेन न शीलेन न क्रमेणेति । एतेन चैतत्प्रतिपादितं भवति या एव पित्रादिभिः शाखाऽधीता सोऽपि न त्याज्येति ॥ २॥
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ॥
स्रग्विणं तल्प आसीनमईयेत्प्रथमं गवा ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तं ब्रह्मदायहरं प्रथमं गवाऽर्हयेत् । ब्रह्म च दायश्च ते उभे हरति स्वीकरोतीति २० ब्रह्मदायहरः । दीयत इति दायो धनं, ब्रह्म वेदो, हरणमधिगमः । गृहीतवेदः पित्रा कृत विभागो गार्हस्थ्यं प्रतिपद्यते निर्धनस्यानधिकारात् । यदि तु पिता निर्धनस्तदा सांतानिकतया धनमर्जायित्वा विवाहयेत् । अन्ये तु ब्रह्मैव दायो ब्रह्मदाय इति पूर्वोक्तविध्यनुवादं मन्यन्ते पितुरिति । ननु चाचार्यस्य माणवकाध्यापनेऽधिकार उक्तः किमिदमुच्यते पितुर्ब्रह्मदायहरमिति । उच्यते । यस्य पिता विद्यते तस्य स एवाचार्यः । अभावे पितुरशक्तौ वाऽन्य२५ स्याधिकारः । आचार्यान्तरोपादानेन पितुरधिकारो निवर्तत एव स्वयं वाऽध्यापयत्वन्योपादाने न वेति न विशेषः । यदप्याहुर्वरो दक्षिणेत्युपनयने नित्यवदक्षिणास्नानात्परकर्तृकत्वमेवेति तदसत् । उपनयस्य ह्ययं विधिः वरो दक्षिणेति । उपनेता च पिता वाऽऽचार्यों वा तौ द्वावपि स्वाधिकारप्रवृत्तौ नानत्यन्तरमपेक्षेते आनमनार्थं हि दक्षिणादानम् ।
1
1
क्ष - सैव । २फ-त्य
For Private And Personal Use Only