________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः । तावतैवाङ्गकलापानुष्ठानम् । असमाप्तग्रहणस्य तद्रतनिवृत्तौ व्रतस्नातकव्यपदेशः । अतः कालविशेषविधानं युक्तम् । त्रिभिः विना न व्रतस्नातको भवति तद्यद्यपि " स्नानं वेदसमाप्ताविति " केचित्स्मरन्ति तथापि तदर्थव्रतसमाप्तावपि प्रयोग उपचाराद्युक्त एव । तयुक्तम् । सत्यपि विधिप्रयुक्ते यावदध्ययनभावितैव व्रतानां युक्ता । अध्ययनसंयोगेन हि तानि चोद्यन्ते यावदध्ययनं भवितुमर्हति वचनादेव हि त्रिसांवत्सरी व्रतचर्या प्रागपि ग्रहणायद्येतत्पृथग्वाक्यम् । अथ तु ग्रहणान्तिकमेवेत्येकं वाक्यं ततो नास्त्यगृहीते वेदे व्रतनिवृत्तिः । एवकारेणैवमेव पक्षमनुमन्यन्ते । यदि नास्त्यगृहीते वेदे तन्निवृत्तिः कथं तर्हि व्रतस्नातको वेदस्नातक इति भेदेन व्यपदेशः । चतुर्थे वक्ष्यामः । षट्त्रिंशदब्दाः समाहृताः षट्त्रिंशदब्दं तत्र भवं षाट्त्रिंशदाब्दिकम् । एवं त्रैवेदिकम् । तदर्धपरिमाणं तर्धिकम् । एवं पादिकं ग्रहणान्तिकमिति सर्वत्र “अत इनि ठनाविति" ( व्या. सू. १० ५।२।१४५ ) मत्वर्थीयः । न तु यस्य यत्परिमाणं तत्तस्यास्तीति शक्यतेऽपदेष्टुम् ॥१॥
वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ॥
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ २ ॥ त्रैवेदिकमध्ययनमुक्तम् । एकद्विवेदाध्ययनमप्राप्तं विकल्प्यते । वेदशब्दः शाखावचनो व्याख्यातः । तिस्रः शाखा अधीयीत द्वे एकां वैकैकस्माद्वेदान्न त्वेकस्मादेव । त्रयी १५ त्रिविद्येति पठ्यते । अधीत्य गृहीत्वा वेदमुक्तथा व्रतचर्यया गृहस्थाश्रममावसेत् । गृहस्थाश्रमस्य स्वरूपं वक्ष्यति “उद्वहेत द्विजो भार्याम्" इत्यादि। आवसे"दनुतिष्ठेत् । अने कार्था धातवः । कृतदारंपरिग्रहो रूढ्या गृहस्थ उच्यते । गृहशब्दो दारवचनस्तत्र तिष्ठति । आङ् मर्यादायां वर्तते । तस्य यो विहितः पदार्थसमूहो विधिनिषेधात्मकः स आश्रमशब्देनोच्यते। यथोपनीतस्य ब्रह्मचर्याश्रम आ समावर्तनात् कृतविवाहस्य गार्ह- २० स्थ्यामिति । अविप्लुतमखण्डितं ब्रह्मचर्यः स्त्रीसंप्रयोगनिवृत्तिर्यस्य स एवमुच्यते । वाक्यभेदश्चात्र द्रष्टव्यः । आख्यातव्यवहारेणाविप्लुतब्रह्मचर्यो भवेद्गृहस्थाश्रमं च प्रतिपद्यते । एकवाक्यतायां कदाचन विप्लवे गार्हस्थ्याधिकार एव हीयेत अद्य पुनः पुरुषार्थतया विधानेन तदतिक्रमे प्रायश्चित्तेन युज्यते न त्वधिकारी भवति । ___अधीत्यावसेदिति च पौर्वापर्यमानं विवक्षितम् । नाध्ययनसमनंतरभाविता विवाहस्य २६ यत्कार्यात्पौर्वापर्यविधानादानन्तर्य न शब्दार्थः । अतश्च स्वाध्यायाध्ययनविवाहयोरन्तराले व्याकरणादिशास्त्रश्रवणं वेदार्थज्ञानार्थ लभ्यते । विद्वानेव हि गार्हस्थ्येऽधिक्रियते । यथा नाध्ययनविधौ मूर्यो यद्यपि बाल्यावस्थाया तिर्यक्समानधर्मा स्वमधिकारं प्रतिपत्तुमसमर्थ
१फ-भवति २ अ-व्रतनिवृत्ति । ३ तदस्य परिमाणं "व्या. सू.-(५।१५५)" अग्रे : लोके
For Private And Personal Use Only