________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः अन्ये तु 'ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय' इति निष्कारण इत्येतस्याधिकारपदतां मन्यन्ते । निष्कारणः कारणं प्रयोजनमनुद्दिश्य नित्यकर्मवत्कर्तव्यं न ह्यस्याधिकारसमर्पकत्वमन्तरेण विषयद्वारेण क्रियाकारकतद्विशेषणत्वादिनाऽन्वयः संभवति । 'तस्मात्सत्यपि संस्कारविधित्वे गम्यमानाधिकारत्वं श्रूयमाणाधिकारत्वं वाऽविरुद्धम् ।
अपरे त संस्कारविधित्वादनधिकारतामेव ज्यायसीं मन्यन्ते । अनष्ठानविशेषलाभार्थो ह्यधिकार उपास्यते । स चेह संस्कार्यविशेषदर्शनादेव सिद्धः । संस्कारविधयः प्रयोजनापेक्षया । क्रियाफलमेवात्र विधिसाध्यं तच्च कर्मस्थं ग्रहणलक्षणं दृश्यत एवाविरुद्धम् ।
____ अश्रुते विभागे स्मृत्यन्तराद्विभागावगतिः " प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानीति"। १० के पनरत्र त्रयो वेदा अभिप्रेताः “ ऋग्वेदो यजुर्वेदः सामवेद " इति । अथ
किं नाथर्वणो वेद इति यद्येतत् पृथग्वाक्यम् । अथ तु ग्रहणान्तिकमेव चेत्येतन्नैकं वाक्यं तन्नास्ति गृहीते वेदे व्रतनिवृत्तिः । क एवमाह किंवत्र यथाश्रुतं संस्कार्यत्वनिबर्हणायाँ अर्थावबोधनिष्ठतया तस्य विधेरनुष्ठानलाभः । अवबोधो हि सकलकर्मानुष्ठानोपयोगीति । आथर्वणश्चाभिचाराद्यपदेशबहुलः । तस्मान्न ज्योतिष्टोमादि कर्माणि विधीयन्ते । नापिर. तेषां किंचिदङ्गं त्रय्यैव हौत्राध्वर्यवौद्गात्रादिसकलतदङ्गपरिसमाप्तिः । प्रधानोत्पत्तिविधयश्च त्र-मेव ज्योतिष्टोमादीनां संति । ब्रह्मत्वमपि त्रामेव विद्यते । त्रिशब्दश्च संख्यावचनः । न च संख्याशब्दाः केचिद्धर्ममेकमनपेक्ष्य प्रवर्तन्ते । अतो येषामेवेह कार्योपदेशपरता त एव त्रिशब्देनाभिगदितुं शक्यन्ते । न चाथर्वणस्य तत्कार्यानुप्रवेशः । न
तंत्र प्रधानविधयो ज्योतिष्टोमादीनां नाङ्गविधयः । श्येनादिष्वभिचारयज्ञेषु त एवविनः २० सैवान्याऽपीतिकर्तव्यता । विशेषोऽपि यः सोऽपि त्रय्यामेवोपदिष्टः । अत ऋग्यजुषाम
क्सामाभ्यां चैकत्र कर्माण समावेशाभावात्रिवेदीव्यपदेशानुपपत्तेराथर्वणस्येह ग्रहणं स्वाध्यायशब्दवाच्यत्वात्त्वध्ययनविधेस्तद्विषयत्वमविरुद्धम् ।
तदर्धिक षट्त्रिंशत्संख्या प्रत्यवमृश्यते ततोऽर्धमष्टादशवर्षाणि । अत्रापि विभागकल्पना पड़र्षाणि । अत्रापि पादिकं पादश्चतुर्भागभागिनी सैव संख्या नव वर्षाणि २५ चतुर्थों भागः। प्रतिवेदं त्रीणि।
कथं पुनस्त्रिीवर्वेदः शक्यो ग्रहीतुं असमाप्तग्रहणस्य च व्रतनिवृत्तौ व्रतस्नातकन्यपदेशे, भवति कश्चिन्मेधावित्तमः । अपर आह न ग्रहणस्वरूपप्रयुक्ता धर्माः किं तर्हि तद्विषयेण विधिना प्रयुज्यन्ते । तत्रापि निवृत्ते ग्रहणे यदि कानिचिदहानि नियमानुपालनमध्ययनकाले क्रियते तावत्सम्पाद्यत एव शास्त्रार्थः भवेत्स्वाध्यायविध्यर्थ फ-त्रयाणामेव २ अ-नात्र ।
For Private And Personal Use Only