SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ मेधातिथिभाष्यसमलंकृता । [ तृतीयः एवं ह्याहुः न तस्याध्ययनमात्रं तत्र भवन्तो याज्ञिकाः फलं समामनन्तीति । तथा “दृष्टो हि तस्यार्थ कर्मावबोधनं नामेति " शबरभाष्ये । तस्य न च कश्चिद्विशेषो दृश्यते । यद्येवं ग्रहणकालेऽप्यन्तरेण व्रतधर्मानुष्ठानं ग्रहणदर्शनानुष्ठानप्रसङ्गः। कश्चैवमाह अर्थावबोधार्थः स्वाध्यायविधिरिति । स्वाध्यायविधिः स्वार्थ एव । ५ नान्यस्यान्यार्थतायां प्रमाणमस्ति । अर्थावबोधो हि ग्रहणे सति वस्तुस्वतोवृत्त उत्पद्यते न विधितः । स्वर्गादिफलार्थिनोऽयं विधिः । एतदपि कथं भविष्यति । का तीयं वाचो युक्तिः फलविशेषेणेति । एषा वाचो युक्तिः संस्कारविधिस्तावदयं स्वाध्यायप्रधानस्तस्य स्वाध्याये कर्मप्युत्पन्नत्वात् । संस्कारविधयश्च न साक्षादधिकारमर्हन्ति किन्तु संस्कार्य द्वारेण साधिकारविध्यन्तरमनुप्रविशन्ति । यथा ब्रीहिमवहन्तीति दर्शपूर्णमासाधिकार१. विषयाग्नेयादियागसाधनभूतपुरोडाशप्रतिव्रीहितुषकणविप्रमोचनादिसंस्कारद्वारेण दर्शपूर्ण मासापूर्वसंबन्धमनुभवति । अवघातो न तन्निरपेक्षः । स एव कर्तव्यतया प्रतीयते । एवमिह वेदस्य संस्कार्यत्वमन्यत्राशेषभूतस्य निर्वहति । दृष्टस्वाध्यायाध्ययनानन्तरमा. वबोधः । अत इदमध्ययनमर्थावबोधपर्यन्तमवघात इव तण्डुलनिष्पत्तिपर्यन्तः । एता. वांस्तु विशेषः । प्रकरणेऽधीतत्वादवघातो झटिति लब्धाधिकारविध्यन्तरसंबन्धः । अयं १५ त्वनारम्याधीतत्वादवबोधपर्यवसायी सकलफलकर्मानुष्ठानोपयोगितया गम्यमानोऽधिकारः। तों विध्यर्थनिवृत्तिरेव फलविशेषोऽभिप्रेतः । विधेहि पुरुषार्थत्वं व्युत्पन्नावगमं तत्साक्षाद्भवतु वा परम्परया वेति न विशेषः । गम्यमानाधिकारत्वाच्च स्वतन्त्र एवायं विधिः स्वात्मानमनुष्ठापयति यद्यपि नित्यकामश्रुतिष्वर्थावबोध उपयुज्यते । __ये त्वर्थावबोधद्वारेण ज्योतिष्टोमादिविध्यककार्यत्वमिच्छन्ति तत्फलस्यैव च प्रयत्नविशेषादतिशयमाहुस्तेषामाचार्यकरणविधिना किमपराद्धं येन महता यत्नेन तदेककार्यता निषिध्यते । अप्रामाण्यं वेदस्य भवतीति चेदस्तु । न प्रयोजनवशेन युक्तिसामर्थ्यायातोऽर्थो हातुं शक्यते । युक्तिस्तु युक्त्यन्तरेण बलीयसा बाध्यते । आचार्यकरणविध्येककार्यत्वे त्वस्य विधिरूपतैव हीयते स्वार्थस्याविवक्षितत्वात् । तत्तुल्यं ज्योतिष्टोमाद्यनुप्रवेशेऽपि । यदा तु स्वतन्त्रोऽयं विधिः स्वार्थानुष्ठापकस्तत्समानस्कन्धस्तदा स्वयमेवेतिकर्तव्यतया युक्तोऽनुष्ठीयते । तत्र ये विकल्पिता: कल्पा लघीयांसो गरीयांसश्च तेषां लघीयसा सिद्ध गरीयसामनुष्ठानं विध्यर्थ एव विशेषमावहति । यथाऽऽवाने एको देया तिस्रो देया द्वादश दश वेत्यादि । अनुष्ठिते चास्मिन्विधौ स्वसामर्थ्याच्छ्रुतौ वा भवतु प्रतीयमानो मा कल्पो वा प्रमाणभेदोऽयं न संबन्धभेदः सर्वथोभयतः स्पर्शतो न मुच्या महे यद्यस्य विधिः स्वार्थानुष्ठापको ज्योतिष्टोमाद्युपकारकत्वम् । २० फ-प्रकृति २-फ तत्र ३ अकउ-तत्तत्साक्षात् ४ अकड-एवं तुं १ ख-यथाधाने रूपका देया २५ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy