SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। १८५ अथ तृतीयाध्यायः षट्त्रिंशदाब्दिकं चर्य गुरौ त्रैवेदिकं व्रतम् ॥ तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥१॥ द्विविधो ब्रह्मचारी पूर्वत्र प्रतिपादितो नैष्ठिक उपकुर्वाणश्चेति । “ आ समाप्तेः ५ शरीरस्य यस्तु शुश्रूषते गुरुम्" (अ. २ श्लो. २४ ४ ) इत्यनेन नैष्ठिकब्रह्मचर्यमुक्तम् । " आ समावर्तनादिति ” पक्षान्तरमपि सूचितम् । तत्र नैष्ठिकस्य नामधेर्यस्य प्रतिलम्भेनैव निमित्तवता अवधिशेषः सुगमितः । निष्ठां समाप्तिं गच्छति नैष्ठिकः । श्रुत्यैव कालो विहितः " आ समाप्तेरिति " । उपकुर्वाणस्य " भनेन क्रमयोगेन" ( अ. ६ श्लो. ८५ ) । " तपोविशेषैर्विविधैर्ऋतैश्च विधिचोदितैः ॥ वेदः कृत्स्नोऽधि- १० गन्तव्यः " ( अ. २ श्लो. १११ ) इति । संख्याया अविवक्षायां चैकद्वित्रिचतुःपञ्चषट्सप्तादिशाखाध्ययनं यथाशक्ति प्राप्तं नियम्यते। त्रैवेदिकं व्रतं चर्यम् ।त्रयाणां वेदानां समाहारस्त्रिवेदी तद्ग्रहणप्रयोजनं त्रैवेदिकम् । ग्रहणक्रिया वृत्तावन्तर्भवति वेदाधिगमस्य प्राग्विहितत्वात् । व्रतं ब्रह्मचारिधर्मकलापः । चर्य चरितव्यम् । कृत्यो विधौ । ___एवमाहरणादीना ग्रहणान्ततायां प्राप्तायामाह । षट्त्रिंशदाब्दिकमिति । गृहीतेऽपि वेदे कालः पूरयितव्यः । यदि स्वाध्यायाध्ययनविध्यर्थो धर्मस्तस्य च स्वाध्यायविधग्रहणे निवृत्तिः किमर्था तर्हि द्वादशवार्षिकी ग्रहणोक्तकालं व्रतचर्यानुवृत्तिः । अत्यरुपमिदमुच्यते । दर्शपूर्णमासादिष्वप्याग्नेयादियागेभ्यः पराञ्चि यान्यङ्गानि तत्राप्येतद्वक्त व्यम् । समस्तानानुष्ठान एवमत्रारादुपकारकाङ्गयुक्ताद्विशिष्टक्रमकाद्विध्यर्थसंपद्यवगतायां २० परिचोदनाशब्दादेव विधिः संवादोपैगमो यतः । अथ महतो लधीयांसस्तदर्षिकपादिकग्रहणावधयः पक्षाः सन्ति तेषु सत्सु कः खलु महाप्रयासमतिचिरकालं तावद्वादशवार्षिक व्रतचरणमाद्रियेतेति चेत्फलभूमार्थिनोऽङ्गभ्यस्त्वमनुष्ठास्यन्ति । तदुक्तं प्रयत्नविशेषात्फलविशेषेण भवितव्यमिति । ननु च नार्थावबोधाइते प्रहणद्वारेण स्वाध्यायाध्ययनस्य किंचिदपरं फलमस्ति । २५ १ फ-नामधेयप्रातिलं भेनैव २ फ-भविवक्षोक्ता । अबकक्ष-एवं ब्रह्मचारिधर्मकलापः · फ-त्यो विधी. " प्रैषातिसर्ग " ( व्या. सू. ३ । ३ । १६३), " कृत्याः " (म्माः सू. ३।१।९५) ख क्ष-धर्मप्रतं विधी ५ ड क्ष खफ-विधिः सम्बन्धोऽपगमो. - २४ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy