SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । १८३ अत्यन्तं भवमात्यन्तिकं वासं गुरोः कुले नैष्ठिकं ब्रह्मचर्य यदि रोचये - तदा युक्तस्तत्परः परिचरेदेनं गुरुमा शरीरस्य विमोक्षणात्प्रदाचार मिल इत्यर्थः ॥ २४३ ॥ आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ॥ स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २४४ नैष्ठिकब्रह्मचर्यस्य फलविधिरयम् । शरीरस्य समाप्तिर्जीवितत्यागः । तता कालाद्यो गुरुं शुश्रूषते परिचरति स गच्छति विप्रो ब्रह्मणः सद्म सदनं स्थान शाश्वतं न पुनः संसारं प्रतिपद्यत इति यावत् । अञ्जसाऽक्लिष्टेन मार्गेण न गत्यन्तरेण तिर्यक्त्वेन मनुष्यादिजन्मना व्यवधीयते । ब्रह्मशब्देन चेति सहादर्शने देवविशेषश्च चतुर्वक्रस्तस्य सद्मस्थानविशेषो दिवि विद्यते वेदान्तवादिनां तु ब्रह्म परमात्मा तस्य सद्म स्वरूपमेव १० तद्भावापत्तिः ॥ २४४ ॥ न पूर्व गुरवे किंचिदुपकुर्वीत धर्मवित् ॥ स्नास्यंस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥ २४५ ॥ नैष्ठिकस्यायं गुरवेऽर्घदानं प्रतिषिध्यते । स्नास्यतो गुर्वर्थविधानात् न च नैष्ठिकस्य स्नानमस्ति प्रकृतश्च नैष्ठिक एव उपकुर्वाणस्य तु उपनयनात्प्रभृति यावत्स्नानमस्त्येव १९ सति संभवे यथा शक्त्या दानं पूर्व स्नानाद्गुरवे किंचिदुपकुर्वीत दद्याद्ददात्यर्थे धातुः सोपसर्गोऽतश्च स्वसाध्या चतुर्थी । अथवा क्रियाग्रहणमपि कर्तव्यमिति । ततः संप्रदानत्वं धर्मवित्पदमनुवादः । स्नास्यंस्तु स्नानकाले प्राप्ते गुरुणा आदिष्टममुमर्थमाहरेति ततः शक्त्या यावन्तं शक्नोति तावन्तं गुर्वर्थ गुरोरिदं गुर्वर्थ गुरोर्येन प्रयोजनं तमाहरेदुपनयेत् । नन्वयं नैष्ठिकस्य गुर्वर्थकरणप्रतिषेधः । न ह्येते द्वे वाक्ये एकेन प्रतिषेधः अपरेण गुर्व- २० र्थविधिः । स्नाने गुर्वर्थोऽवश्यं कर्तव्यमित्ययं विधिः प्रतिषेध उपकारप्रतिषेधे च सर्वशुश्रूषाविधिरनर्थकः स्यात् । न च दानमेवोपकारो येन धनोपकार एव निषिध्येत नान्यः प्रियहितादिः । अर्थवादत्वेत्वयथार्थता न दोषः । गम्यते चात्रैकवाक्यता ॥ २४५ ॥ क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम् ॥ 1 धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ।। २४६ ॥ उक्तमुद्दिष्टं गुर्वर्थं कुर्यात्तत्र न सर्वे कर्तव्यमित्येवमर्थोऽयं श्लोकः । यदि गुरुर्विरुद्धमादिशेत् अमुष्यस्त्रियमाहरेति सर्वस्वं वा देहीति तन्न कर्तव्यम् । किं तर्हि क्षेत्रं धान्यानां भवनभूमिः क्षेत्रमुच्यते । हिरण्यं सुवर्णम् वा शब्दो विकल्पार्थो न समुदितानि देयानि । अन्ततः अन्याभावे छत्रोपानहमपि । द्वन्द्वनिर्देशात्साहित्यदानम् । वासांसीति सर्वत्र संख्या न विवक्षिता । प्रीतिमाहरन्निति एतदाहरेदिति पूर्व संबन्धः । प्रीतिमाहरेदिति ३० वा पाठे अत्रैव क्रियापरिममाप्तिः । प्रीतिमावहेदिति वा प्रीतिमुत्पादयेद्वान्यायाहरेत् 1 For Private And Personal Use Only २५
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy