________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२ मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः आपदित्येव सिद्धे कालग्रहणं वृत्तपूरणार्थम् । पाठान्तरमापत्कल इति । कल्पनं कल्प आपद्येषां कल्पना विधीयते उपदिश्यते । यदाचार्यः प्रारब्धाध्यापनः प्रायश्चित्तेनान्येन वा निमित्तेन शिष्यं हित्वा देशान्तरं व्रजेत् न च ब्राह्मणोऽन्योऽध्यापकस्तस्मिन्देशे
लभ्यते बालत्वाद्दूरदेशगमनमशक्यं तदा ब्राह्मणः क्षत्रियात्तदभावे वैश्यादध्ययनं ६ प्रकृतत्वात् । वेदः कृत्स्न इति वेदग्रहणं विधीयते । यद्यप्यत्राब्राह्मणशब्दो - ब्राह्मणजातेरन्यत्र जातित्रये वर्तमानं पुरुषत्वमाचष्टे तथापि नेह शूद्रस्य ग्रहणं तस्याध्यापनाधिकाराभावात् । सत्यध्ययनेऽध्यापकत्वम् । अथ शास्त्रातिक्रमेण शूद्रस्याप्यधीतवेदत्वस्य संभवः क्षत्रियवैश्ययोरध्यापकत्वस्येव । तदपि न यतो धारणे
शरीरभेदस्तस्याम्नातः न चेदं महत्वान्महदेतदाचार्यकमनुमीयते निन्दितकर्माभ्यासे १० पतनात्तत्संसर्गाच्च ब्रह्मचारिणाम् किंतु दुष्टता स्यान्निषेधात् तुल्यदोष इति चेदस्त्यत्र
विशेषः । यत्र दण्डप्रायश्चित्ते गुरुणी तत्र महादोषता । स्वल्पयोस्तु स्वल्पदोषता । न च क्षत्रियवैश्ययोरध्यापने महती दण्डप्रायश्चित्ते शद्रस्येव । किंच द्वे निन्दिते कर्मण्यध्ययनमध्यापनं च । क्षत्रियवैश्ययोस्त्वेकमेव । निषिद्धाध्यापनसंसर्गस्त्वनेनैवानुज्ञातो नासौ
दोषकरः । निषिद्धाध्ययनेन तु शुद्रेण संसर्गे न किंचित्प्रमाणमस्ति । अनुव्रज्या च १५ शुश्रूषा । न वन्दनपादप्रक्षालनादि। शुश्रूषाप्रतिषेधार्थमनुव्रज्यैव शुश्रूषा नान्यति । यावध्ययनं यावद्रहणम् ॥ २४१ ॥
नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ॥ ब्राह्मणे चाननूचाने कासन्गतिमनुत्तमाम् ॥ २४२ ॥
अब्राह्मणे गुरौ वासोऽध्ययनाय पूर्वेणोक्तो नैष्ठिकस्यापि प्राप्तो विशेषे निषिध्यते। २० आत्यन्तिकं वासं यावजीविकं न वसेन्न कुर्यात् । वासं वसेदिति सामान्यविशेषभावाद्वासं वसेदिति संवन्धः कल्प्यः गुरुविषयो वासस्तं वसेत् । समाप्ताध्ययनोऽन्यत्र गच्छेत् ।
ननु चाध्ययनमात्रमनुज्ञातमात्यन्तिकस्य वासस्य कुतः प्राप्तिः । नैष दोषः । गुरौ तस्य वास उक्तः अध्यापयिता च गुरुरुक्तः अतो भवत्याशङ्का ।
ब्राह्मणे वाननूचाने वाशब्दोऽप्यर्थः । ब्राह्मणोऽपि यद्यनूचानो वृत्ताभिननसं. २५ पन्नो न भवति न च व्याख्यानाध्ययनशीलोऽनुवचनेनैतेऽपि गुणा लक्ष्यन्ते यतो ननु वक्त
र्यथा भावादेवावासः सिद्धः । गतिरत्र सुखातिशयप्राप्तिर्विवक्षिता । अनुत्तमा यस्या अन्योत्तमा नास्ति तां कासन्परमात्मानन्दरूपं मोक्षम् ॥ २४२ ॥
यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले ॥ युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ २४३ ॥
For Private And Personal Use Only