SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । १८१ वेदविद्या वेदितव्या आपदि विधिभविष्यति अनापदि तु नैवेष्यते । या च शुभा शाश्वती माया कुहकादि वा तां न क्वचित् । अन्त्यश्चाण्डालस्तस्मादपि यः परो धर्मः श्रुतिस्मृत्यपेक्षया परोऽन्यो लौकिकः । धर्मशब्दो व्यवस्थायामपि प्रयुज्यते । एषोऽत्र धर्म इति यदि चण्डालोऽपि ब्रूते । अत्र प्रदेशे मा चिरं स्थाः मा वाऽस्मिन्नम्भसि स्नासीरेषोऽत्र ग्रामीणानां धर्मो राज्ञा कृता वा मर्यादेति। न चैवं मन्तव्यमुपाध्यायवचनं मया कर्तव्यं धिक चाण्डालं ५ यो मां नियुक्त इति । न पुनरियं बुद्धिः कर्तव्या परो धर्मो ब्रह्मतत्त्वज्ञानं न हि चण्डालादेस्तत्परिज्ञानसंभवो वेदार्थवित्त्वाभावात् । न चान्यतस्तत्संभवो न हि वृश्चिकमन्त्राक्षरवद्ब्रह्मोपदेशोऽस्ति । स्त्री रत्नमिव स्त्रीचासौ रत्नं च तदिति वा “उपमितं व्याघ्रादिभिः" (व्या. सू. २।१।५६) “विशेषणं विशेष्येणेति" (व्या. सू. २।१।५७) वा यदा यत्किचिदुत्कृष्टं वस्तु तद्रत्नमुच्यते तदा विशेषणमिति । अथ तु मरकतपद्मरागादीन्येव रत्न- १० शब्दवाच्यान्युत्कर्षसामान्यादन्यत्र प्रयोगस्तदोपमितमिति । या स्त्रीसंस्थानलावण्यातिशयवती अथ धान्यबहुधनसुतादिशुभलक्षणा सा दुष्कुलाद्धीनक्रियादेरप्यानेया। अब्राह्मणादित्यस्य विधेरयमपवादोऽलाभेन तु प्रदर्शितः ॥ २३८ ॥ विषादप्यमृतं ग्राह्यं वालादपि सुभाषितम् ॥ . अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ २३९ ॥ पूर्व इमौ चापद्यब्राह्मणादप्यध्यतव्यामत्यस्य विधेः शेषः । अनेन लोकप्रवादो दृष्टं न क्रियते । एवं हि लौकिका आहुः । असतस्तदुपादेयं विषेऽपि यदमृतं तबाह्यमेव यथा हंस उदकात्क्षीरं गृह्णाति रसायनेषु केषुचिद्विषं इत्येतदभिप्रेत्योक्तम् । बालोऽपि यत्किचिदकस्मात्सुभाषितं माङ्गलिकं प्रस्थानादौ वक्ति तबाह्यम् । अमित्रादेरपि सतां यद्वृत्तं शिष्टाचारः। न द्वेषस्तेनैतदाचरितमिति न्यायात्सिद्धतरोऽयं दृष्टान्तः । अमेध्यादपि २० काञ्चनं सुवर्णमसदाश्रयात्प्राप्यते तथा गृह्यते तद्वब्राह्मणादध्ययनमिति ॥ २३९ ॥ स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ॥ विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २४० ॥ रत्नानि मणयः शम्बरपुलिन्दादिभ्योऽप्युपात्ताः शुद्धास्तद्वद्विद्याद्यपीति । शिल्पानि च विचित्रपत्रच्छेद्यादीन्यदुष्टान्यगर्हितानि चैलनिर्णेजनपटजनकबन्धनादीनि सर्वतो २५ जातिविशेषमनपक्ष्य समादेयानि स्वीकर्तव्यानि निश्चितातिधैर्यभावैः । विषादप्यमृतमित्येवमादिभिरनेकवाक्याद्वा समानप्रक्रमत्वेन सर्व एतेऽर्थवादशः ॥ २४० ॥ अब्राह्मणादध्ययनमापत्काले विधीयते ॥ अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ २४१ ॥ अयं तत्र विधिः । आपन्नब्राह्मणाध्यापकभावः । आपदः काल आपत्कालः। ३० For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy