________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८० मेधातिथिभाष्यसमलंकृता।
[द्वितीयः अर्थवादोऽयं पुरुषार्थो ह्याराधनविधिस्तदतिक्रमे पुरुषः प्रत्यवयन्महता पापेन कर्मोपार्जितेऽपीष्टफलभोगे प्रतिबध्यते । अत उच्यते सर्वास्तस्याफलाः क्रिया इति ॥ २३४ ॥
यावत्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ॥ तेष्वेव नित्यं शुश्रूषां कुर्यात्रियहिते रतः ॥ २३५ ॥
उक्तार्थोऽयं श्लोकः । नान्यं समाचरेदृष्टमदृष्टं वा तदनुज्ञानमन्तरेणेत्युक्तम् । तेष्वेव नित्यं शुश्रूषां कुर्यात् । प्रियहिते रतः प्रियं च हितं च तदा यत्प्रीतिकरं तत्प्रियं यत्पालनं तद्धितम् ॥ २३५ ॥
तेषामनुपरोधेन पारव्यं यद्यदाचरेत् ॥ तत्तनिवेदयेत्तेभ्यो मनोवचनकर्मभिः ॥ २३६ ॥
परत्र जन्मान्तरे यस्य फलं भुज्यते तत्पारव्यम् । छान्दसं रूपमेतत् । शुश्रूपाया अविरोधेनान्यं यं यं धर्म समाचरेत्तं तं निवेदयेत्तेम्यस्तान् ज्ञापयेत् । अनुपरोधग्रहणमेवमर्थ कृतम् । यत्तेषां विरोधि तत्तै ज्ञापयितव्यम् । कश्चिदृजुप्रकृतिरभ्यर्थमान आत्मपरोऽधर्ममवगणय्यानुजानाति तन्निवृत्त्यर्थमेतत् । मनोवचनकर्मभिर्न निवेदनमदृष्टा
र्थमपि तु यादृशमनुज्ञानं तादृशमेव कर्मणा दर्शयेत् । अथ चैवं संबन्धः कर्तव्यः । १५ मनोवचनकर्मभिः पारव्यं यद्यदाचरेत्तत्तन्निवदयेत्तेभ्य इति ॥ २३६ ॥
त्रिष्वेतष्विति कृत्यं हि पुरुषस्य समाप्यते ॥
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ २३७ ॥
इतिशब्दः समाप्तिवचनः कासन्यै गमयति । यत्किचन पुरुषस्य कर्तव्यं यावान्कश्चन पुरुषार्थः स एतेष्वाराधितेषु समाप्यते परिपूर्णमनुष्ठितो भवति । एष धर्मः परः २० श्रेष्ठः साक्षात्त्वेन । अन्यश्चाग्निहोत्रादिरूपधर्मः प्रतिहारस्थानीयो न साक्षाद्राजवदिति
प्रशंसा । अवमानप्रतिषेधः । प्रियहितकरणं तद्विरोधिनः कर्तव्यस्याननुष्ठानमविरोधिनोऽप्यननुज्ञातस्थ च परिशिष्टः श्लोकसंघातोऽर्थवादः ॥ २३७ ॥
श्रद्दधानः शुभां विद्यामाददीतावरादपि ॥
अन्त्यादपि परं धर्म स्त्रीरत्नं दुष्कुलादपि ॥ २३८ ।। २५ श्रद्दधान आस्तिक्योपगृहीतान्तरात्माऽभियुक्तो यः शिष्यः स शुभां विद्या न्याय
शास्त्रादितर्कविद्यामथवा या शोभते केवलं सा विशदकाव्यभरतादिविद्याविभूषिता मन्त्रविद्या वा न धर्मोपयोगिनी तामवरादपि हीननातीयादप्याददीत शिक्षते । न त्वत्र शुमा
For Private And Personal Use Only