________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः । उच्यन्ते । त एव च त्रयः प्रथमाद्ब्रह्मचर्यादन्ये त्रय आश्रमाः गार्हस्थ्यादिभिस्त्रिभिराश्रमैर्यत्फलं प्राप्यते तत्तौस्त्रभिस्तुष्टैः त एव त्रयो वेदा वेदत्रयजपतुल्यफलत्वात् । त एव त्रयोऽग्नयः अग्निसाध्यकर्मानुष्ठानफलावाप्तेस्तच्छुश्रूषातः। एषाऽपि प्रशंसैव ॥२३०॥
पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः॥
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥ २३१ ॥ केनचित्सामान्येनायं पित्रादीनां गार्हपत्यादिव्यपदेशः। साग्नित्रेता आधानाग्नित्रेता या गरीयसी महाफला । त्राणं त्राणार्थमिता प्राप्ता त्रेता इति शब्दव्युत्पत्तिः ॥ २३१ ॥
त्रिष्वप्रमाद्यन्नेतेषु त्रीलोकान्विजयेद्गृही ॥
दीप्यमानः स्ववपुषा देववदिवि मोदते ॥ २३२ ॥ एतेष्वप्रमाद्यन्नाराधनेऽस्खलन् । तथा च तदाराधनास्त्रीन् लोकाञ्जयेत्स्वीकुर्या- १० दाधिपत्यमाप्नुयात् । गृही गृहस्थावस्थस्य हि पुत्रस्प पित्रादीनां तत्कृतमाराधनमुपयुज्यते । तदा हि तौ वृद्धौ भवतः । दीप्यमानः शोभमानः प्रकाशमानो वा स्वेनैव तेजसा देववदादित्यवदिवि लोके मोदते ॥ २३२ ॥
इमं लोकं मातृभत्तया पितृभक्त्या तु मध्यमम् ॥
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ २३३ ॥ अयं लोकः पृथिवीभारसहत्वात्तुल्या माता पृथिव्या । पितृभक्त्या । मध्यमो लोकोऽन्तरिक्षं प्रजापतिः पितोक्तः मध्यमस्थानश्च प्रजापतिनॆरुक्तानाम् । स हि वर्षकर्मणां प्रजानां पाता वा पालयिता वा। ब्रह्मलोकमादित्यलोकम् । आदित्यो ब्रह्मेत्यादेशः लोकः स्थानविशेषस्तमश्नुते प्राप्नोति । अर्थवादा एते तत्र नाभिनिवेष्टव्यम् । न च लोकाधिपत्यकामस्य तदाराधनाधिकारः । नायं काम्यो विधिः । पितृत्वमेवात्र निमित्तमकरणे २० शास्त्रातिक्रमः ॥ २३३॥
सर्वे तस्याहता धर्मा यस्यैते त्रय आहताः ॥
आनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ २३४ ॥ आदृताः सत्कृताः । आदृतवचनेन प्रत्युपकारपरत्वं लक्ष्यते यो ह्याहतो भवति स परितुष्टः प्रत्युपकाराय यतते । अथवाऽऽदृतः परितुष्ट उच्यते । धर्मस्य चानन्त्या- २५ त्परितोषानुपपत्तेः फलदानोत्सुकत्वं लक्ष्यते । सर्वाणि तस्य कर्माण्याशु फलदायीनि भवन्ति । यस्यैते त्रय आहताः शुश्रूषया परितुष्टाः एतैस्त्वनाराधितैर्यत्फलकामेन किंचिक्रियते शुभं कर्म तत्सर्व निष्फलम् । सर्वाः क्रियाः सर्वाणि श्रौतस्मार्तानि कर्माणि ।
For Private And Personal Use Only