SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । १७७ ननु सर्वस्याचारस्यावेदवित्संबन्धिनः प्रामाण्यं घटते अयुक्तमतन्न हि स्वल्पोऽप्याचार अवेदविदां प्रमाणीभवति । अथास्ति. मूलं वेदवित्संबन्धः एवं तर्हि प्रमाणं शूद्रग्रहणे न । न चैवंविधे विषये स्त्रीशूद्राचारस्य प्रामाण्यमभिप्रेतम् । तथा हि सति प्रामाण्याभिधानप्रकरण एवावक्ष्यत् । तस्माच्छ्रेयः पदार्थनिरूपणार्थोऽयमुपोद्धात इति परमार्थः । यद्वाऽऽचार्य चसां प्रामाण्यानुवादोऽयम् । स्त्रीशूद्रावपि ब्रूयातां तदप्यनुष्ठातुं युक्तं किं ५ पुनराचार्योपदिष्टम् । यत्र चास्य रमेत्परितुष्येन्मन एतदप्यात्मनस्तुष्टिरित्यत्र व्याख्यातम् । सर्वथा नास्य श्लोकस्यातीव प्रयोजनमस्ति ॥ २२३ ॥ धर्मार्थावुच्यते श्रेयः कामार्थों धर्म एव च । अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ २२४ ॥ यत्प्रशस्यं यदाचर्यमाणं दृष्टादृष्टे नोपहन्ति यच्छ्यो लोक उच्यते किंपुनस्तदिति सुहृद्भूत्वाऽन्वाचष्टे । नायं वेदमूलोऽर्थो नाचार्यादिशब्दवत्पदार्थकथनम् । किं तर्हि श्रेयोऽर्थी सर्वः पुरुषः प्रवर्तते । तत्रेदमुच्यते । इदं श्रेयः एतदर्थ यत्नः कर्तव्यः । तत्र मतान्तराणि तावदुपन्यस्यति । केषांचिन्मतं धर्मार्थों श्रेयः । धर्मः शास्त्रविहितौ विधिप्रतिषेधौ । अर्थो गोभूमिहिरण्यादिः। एतदेव श्रेयः एतदधीनत्वात्पुरुषप्रीतेः । अपरं मतं १५ कामार्थविति । कामस्तावन्मुख्य एव पुरुषार्थः प्रीतिर्हि श्रेयः अर्थोऽपि तत्साधनत्वात् । एवं हि चार्वाकाः आहुः । काम एवैकः पुरुषार्थस्तस्य साधनमर्थः धर्भोऽपि यद्यस्ति धर्म एव सर्वेभ्यः श्रेयान्सर्वस्य तन्मूलत्वाच्च । उक्तं च “धर्मादर्थश्च कामश्च ” इति । अर्थत एव वणिजः प्रयोगजीविनः । सिद्धान्तस्तु त्रिवर्ग इति तु स्थितिः । अतो धर्माविरोधिनावर्थकामावपि सेवितव्यौ न तद्विरोधिनौ । तथा च गौतमः ( अ.९ सू. ४६ )। "न २० पूर्वाह्नमध्यंदिनापराह्लानफलान्कुर्यात् यथाशक्तिधर्मार्थकामेभ्य" इति । त्र्यात्मको वर्गस्त्रिवर्गः। त्रिषु समुदितेप्वयं रूढः ॥ २२४ ॥ ___ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः। नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ २२५॥ अन्योऽपि न कश्चिदवमन्तव्यः एते पुनर्विशेषतः प्रायश्चित्ताधिक्यमत्रेत्यर्थः । २५ आर्गेन तैः पीडितेनाप्यवमानमवज्ञा प्राप्तायाः पूजाया अकरणं न्यक्कारश्चानादराख्यः । ब्राह्मणग्रहणं पूरणार्थम् ॥ २२५ ॥ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः॥ माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥ २२६ ॥ १. २ अध्याये ६ श्लोकाः। २३ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy