SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ मेधातिथिभाष्यसमलंकृता । [द्वितीयः सूर्येण ह्यभिनिम्लुक्तः शयानोऽभ्युदितश्च यः ॥ प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा ॥ २२१ ॥ पूर्वप्रायश्चित्तविधेरयमर्थवादः। निम्लोचनेनाभिदुष्टः अभिनिम्लुक्तः। एवमम्युदितः प्रायश्चित्तं पूर्वोक्तं न करोति तदा महता पापेन संबध्यते न स्वल्पेन । नरकादि५ दुःखोपभोगनिमित्तमदृष्टपापमुच्यते ॥ २२१ ॥ आचम्य प्रयतो नित्यमुभे संध्ये समाहितः॥ शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ २२२ ॥ एवं महान्दोषोऽभ्युदयनिम्लोचनयोः तस्मादाचम्य प्रयतस्तत्परः समाहितः परिहृतचित्ततत्कर्मा विज्ञेयः । शुचौ देशे जपञ्जप्यं प्रणवव्यात्दृतिसावित्र्याख्यमुपासीत । १० उभे संध्ये संध्ययोरेवात्रोपास्यत्वम् । उपासनं च तत्र भावविशेषः । अथवोभे संध्ये प्रत्युपाप्तीत भगवन्तं सवितारम् । मन्त्रो हि तद्देवत्योऽतस्तमेवोपासीत । संत्दृतसकलविकल्पस्तद्गतैकमना भवेत् । प्रागुक्तस्य विधेः शेषोऽनुवादः उपासनं केवलं विधेयम् । अन्ये तु शुचौ देश इत्येतद्विव्यर्थोऽयं श्लोक इत्याहुस्तेषां पौनरुक्त्यम् । सर्वस्यैव कर्तव्यस्य “शुचिना कर्म कर्तव्यमिति" विहितमशुचिदेशसंबन्धे च का शुचिता ॥२२२॥ यदि स्त्री यद्यवरजः श्रेयः किंचित्समाचरेत् ।। तत्सर्वमाचरेद्युक्तो यत्र वाऽस्य रमेन्मनः ॥ २२३ ॥ यदि स्त्री आचार्यानी अवरजः कनीयानाचार्यादुपलभ्य श्रेयः कर्मादिना त्रिवर्ग समाचरेत्तत्सर्वमाचरेत् । संभवति हि तयोस्तदाचार्यसंपर्कात्परिज्ञानम् । शूद्रो वाऽऽचार जनक अवरजः स यद्युपदिशेदेवं पायुलिङ्गी मृद्वारिणा प्रक्षाल्येते निपुणौ हस्तौ प्रक्षा२० लय विस्मृतस्ते मृद्वारिक्रमः त्वदीय आचार्योऽसकृन्मया पायुप्रक्षालने जलं ददता दृष्ट पूर्वः मृद्भिः शौचं करोति ततो मृद्भिरित्येवमादिसमाचरेत्तत्समाचाराद्युत्पाद्योपदिशेत् । तथा चाचार्यानी आचमनं शिक्षयेत्तत्सर्वमाचरेद्युक्तः श्रद्धया न स्त्रीशूद्राचरितमित्यवनानीतः । समाचरेदिति च समाचारपूर्वक उपदेश एवात्राभिप्रेतः । वक्ष्यति च " धर्मशौचं समं यानि सर्वत " इति । आचार्येणैव कदाचिदादिष्टं भवति ब्राह्मणि आचमय पुत्रस्थानीयमेतं ३० तथा विधिपूर्व च ब्रूयादस्य मूत्रपुरीषशुद्धयर्थं मृद्वारिणी देये इति तत्र तदीयवचनमनुष्ठे यमेवं मृदो गृहाण एवमद्भिः प्रक्षालयेदिति । अथवा गुरुगृहाल्लोहोपलजलशुद्धयादिः स्त्रीशूद्राभ्यां समाचार्यमाणः प्रमाणीकर्तव्यः। एतावदाचारस्य स्त्रीशूद्रसंबन्धिनः प्रामाण्यार्थोऽयं श्लोको युज्यते। १ फ-निर्मुक्तं। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy