________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५
अध्यायः]
मनुस्मृतिः । मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः ॥
नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात् क्वचित् ॥ २१९ ॥ मुण्डः सर्वतः केशवपनं कारयेत् । जटिलो वा जटाः परस्परमत्यन्तमितरेतरसंलग्नकेशाः तद्वाञ्जटिलः । शिखैव वा जटा यस्य जटाकारां शिखां धारयेत् परिशिष्टे मुण्डः तथा च कुर्याद्यथा ग्रामे स्थितस्य सूर्योनाभिनिम्लोचेन्नास्तं गच्छेत् ।ग्रामग्रहणं नगरस्यापि ५ प्रदर्शनार्थम् । अस्तमयसमयमरण्ये संभावयेत् । एवं ग्रामे नाभ्युदियादुदयोऽपि सूर्यस्य यथाऽरण्यस्थस्य ब्रह्मचारिणो भवति तथा कुर्यात् । एनं प्रकृतं ब्रह्मचारिणम् । अन्ये तु ग्रामशब्दं ग्राम्येषु धर्मेपु स्वापादिषु वर्तमानं न निम्लोचेदित्येवमर्थ वर्णयन्ति । तथा च उत्तरत्र शयानमित्याह । ततोऽयं संध्ययोः स्वप्नप्रतिषेधो नारण्ये तत्कालावस्थानं बालो हि ब्रह्मचारी बिभीयात् । गौतमेन तु (अ. २ सू. १९।१६) बहिः संध्यत्वं परतो गोदानादुक्तम्। १० गोदानव्रतं च षोडशवर्षे तदा च प्राप्तः शक्नोत्यरण्ये संध्यामुपासितुम् ॥ २१९ ॥
तं चेदभ्युदियात्सूर्यः शयानं कामचारतः ॥
निम्लोचेद्वाऽप्यविज्ञानाज्जपन्नुपवसेदिनम् ॥ २२० ॥ अत्रेदं प्रायश्चित्तं चरेत् । ब्रह्मचारिणं शयानं निद्रावगतमभ्युदियात्स्वेनोदयेनाभि व्याप्तदोषं कुर्यात् । प्रातरतिक्रमे दिनं जपोपवासौ रात्रौ तु भोजनं पश्चिमातिक्रमे तु रात्रौ १५ जपोपवासौ प्रातभोजनामिति । दिनशब्दः प्रदर्शनार्थः । गौतमवचनं चाप्युदाहरन्ति । " तिष्ठेदहरभुञ्जानोऽभ्यस्तमितश्च रात्रिनपन्सावित्रीमिति ” तदयुक्तम् । उभयत्रापि दिवैव प्रायश्चित्तं युक्तं दिनशब्दस्य प्रदर्शनार्थत्वे प्रमाणाभावात् । न ह्यस्य तत्सापेक्षस्य स्वार्थप्रतिपादनं निरपेक्षं चैतत्तस्माद्विकल्पो युक्तः । तत्र यस्य सर्वी रात्रि जाग्रतो न व्याधिः प्रवर्तते स रात्रौ जापष्यति अन्यस्तु दिवैव । जपश्च गौतमवचनात्सावित्र्या एव । २०
नन्वत्र कथं गौतमः प्रमाणीक्रियते । उच्यते । सापेक्षमिदं वाक्यं जपेदिति । जपनीयस्यानिर्देशात् । सत्यामपेक्षायां श्रुत्यन्तरायुक्ताविशेषावगतिः । इह तु कालस्य निर्देशो नास्त कालान्तरं प्रत्यपेक्षेति न गौतमोऽपेक्षते । अथवा संध्यातिक्रमे प्रायश्चित्ताभिधानात्सावित्रीनपः सिद्ध एव । युक्तं च सावित्र्यास्तु परं नास्तीति कामकारतः ज्ञात्वैव संध्याकाले यः स्वपित्यज्ञानाचिरसुप्तस्य संध्याकालोऽयं वर्तत इत्यनवबोधोऽविज्ञानम् । २५ एतदुक्तं भवति । इच्छया प्रमादकृते चातिक्रमे एतदेव प्रायश्चित्तं यः पुनरभ्युदितानस्तमित. संध्यामतिक्रामति तस्य प्रायश्चित्तमभोजनं नित्यानां कर्मणां समतिक्रम इति । अथवा यः कामकारेण शास्त्रातिक्रमणं करोति तस्य तदविज्ञानमेव ॥ २२० ॥
For Private And Personal Use Only