________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः
दोषान्यो जानीते यो वा न किंचिज्जानीते तो स्त्रीविषये समानौ यतो नात्र विद्वत्ता प्रभवति । शक्नुवन्ति स्त्रियः सर्व मुख्यममार्ग लोकशास्त्रविरुद्धं विषयं नेतुं प्रापयितुं कामक्रोधवशानुगं सन्तम् । कामक्रोधाभ्यां यः संबध्यत इत्यर्थः । अवस्थाविशेषोपलक्षणार्थ
चैतत् । अत्यन्तबालं अत्यन्तवृद्धं च प्राप्तयोगप्रकर्षणं च वर्जयित्वा येन निरन्वयमु५ स्थिताः संसारपुरुषधर्मास्तद्वयतिरेकेण न कश्चित्पुरुषोऽस्ति यः स्त्रीभिर्नाकृष्यते । अयः
कान्तेनेव लोहः । न चात्र स्त्रीणां प्रभविष्णुता वस्तुस्वाभाव्यात्तरुणीजनदर्शने पुंसामुन्म-- थ्यते चित्तं विशेषतो ब्रह्मचारिणाम् ॥ २१४ ॥
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ॥ बलवानिन्द्रियग्रामो विद्वांसमपि कति ॥ २१५॥
अतो विविक्तासनः निर्जने शून्ये गृहादौ नासीत । नापि निःशङ्कमङ्गस्पर्शादि कुर्यात् । अतिचपलो हीन्द्रियसंघातो विद्वांसमपि शास्त्रनिगृहीतात्मानमपि कर्षति हरति परतन्त्रीकरोति ॥ २१५ ॥
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ॥ विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥२१६ ॥
काममित्यरुचिं सूचयति । उत्तरेण चैतत्संबध्यते विप्रोप्य पादग्रहणमिति । भुवि तु पादवन्दनमिप्यत एव युवतीनां युवा द्वयोयूनोरयं विधिः । यदि बालो ब्रह्मचारी वृद्धा वा गुरुपत्नी तदा पादोपसंग्रहणमविरुद्धम् । असावहमिति प्रागुक्तस्य विधेरनुवादः । विधिवदिति व्यस्तपाणिना ॥ २१६ ॥
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ॥ गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ २१७ ॥
प्रवासादत्य पादयोर्ग्रहणं सव्येन सव्य इति । अन्वहमहन्यहनि । अभिवादनं भूमौ । सतां शिष्टानां एष धर्म आचार इत्यनुस्मरन् ॥ २१७ ॥
यथा खनन् खनित्रेण नरो वार्यधिगच्छति ॥
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ २१८॥ २५ सर्वस्य शुश्रूषाविधेः फलमिदं गुर्वाराधनद्वारेण स्वाध्यायविध्यर्थता । यथा काश्च
न्मनुष्यः खनित्रेण कुद्दालादिना भूमिं खनन्वारि प्राप्नोति नाक्लेशेन एवमयं विद्या गुरुगता शुश्रूषुः गुरुसेवापरोऽधिगच्छति ॥ २१८ ॥
२०
For Private And Personal Use Only