________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अध्यायः ]
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः । गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।। असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः || २१० ॥ गुरुयोषितो गुरुपत्न्यः सवर्णाः समानजातीयाः गुरुवत्प्रतिपूज्या आज्ञाकर'णादिना । असवर्णास्तु केवलैः प्रत्युत्थानाभिवादनैः । बहुवचनादाद्यर्थोऽत्रान्तर्भवति । न हि प्रियहितादि गत्याद्यननुकरणाद्यप्यतिदिश्यते ॥ २१० ॥
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ॥
I
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २११ ॥ घृततैलादिना केशकायोपदेहनमभ्यञ्जनम् । गात्राणामुत्सादनमुद्वर्तनं कार्यसामान्यात्पादधावनमपि । सर्वथा शरीरस्पर्शसाध्या या काचिदनुवृत्तिः सा सर्वा प्रतिषिध्यते । वक्ष्यति यं हेतुं “ स्वभाव एष नारीणाम् " इति । केशानां च प्रसाधनं १० विन्यासरचनादिकरणं कुंकुमसिंदूरादिना सीमन्तोत्थापनम् । प्रदर्शनार्थ चैतदुक्तं तेन देहप्रसाधनमपि चन्दनानुलेपनानि निषिध्यते ॥ २१९ ॥
गुरुपली तु युवतिर्नाभिवाद्येह पादयोः || पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २१२ ॥
पूर्णविंशतिवर्षेण तरुणेनेत्यर्थः । बालस्य आ षोडशाद्वर्षाददोषः । पूर्णानि १९ विंशतिवर्षाणि यस्य स एवमुच्यते । अयं न्यायो यौवनोद्भेदोपलक्षणार्थः । अत एवाह । गुणदोषौ विजानता । कामजे सुखदुःखे गुणदोषावभिप्रेतौ । स्त्रीगतौ च स्वाकृतिदुराकृतिलक्षणौ धैर्यचापले वा । सर्वथाऽतन्त्रा विंशतिसंख्या ॥ २१२ ॥
1
स्वभाव एष नारीणां नराणामिह दूषणम् ॥
अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ।। २१३॥
२०
एषा प्रकृतिः स्त्रीणां यन्नराणां धैर्यव्यावर्तसङ्गाद्धि स्त्रियः पुरुषान्त्रताच्चावयेयुः । अतोऽर्थात्त्वस्माद्धेतोर्न प्रमाद्यन्ति दूरत एव स्त्रियः परिहरन्ति । प्रमादः स्पर्शादिकरणं वस्तुस्वभावोऽयं यत्तरुणी स्पृष्टा कामकृतं चित्तसंक्षोभं जनयति । तत्र चित्तसंक्षोभोऽपि प्रतिषिद्धः तिष्ठतु तावदपरो ग्राम्यधर्मसंरम्भः । प्रमदाः स्त्रियः ॥ २१३ ॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनः ॥ प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ २१४ ॥
१७३
न चैतन्मन्तव्यं नियमितानि येन चिरमिन्द्रियाण्यतिगुरुपातकं गुरुदारेषु दुष्टेन भावेन प्रेक्षणमपीति य एवं वेद तस्य न दोषः पादस्पर्शादाविति । यत एवंविधानपि
१ अग्रे २१३ श्लोके ।
For Private And Personal Use Only
२५