SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ मेधातिथिभाष्यसमलंकृता। [द्वितीयः वचनः । शूद्राचार्यों चणि व्यायच्छेते तयोराचार्य वर्ण जापयन्तीति प्रयोगदर्शनात् । न च सर्वस्मिन्गुरुपुत्रे वृत्तिरेषा विधीयते । गुराश्चैव स्वबन्धुषु । स्वग्रहणं गुरुवंश्यर्थि गुरुवंशसंबन्धितैवात्र निमित्तं न वयोविद्याद्यपेक्ष्यते ॥ २०७ ॥ बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ २०८ ॥ ये न पठन्ति गुरुपुत्रविशेषणार्थ पूर्वत्राचार्यग्रहणं तेषामध्यापयितरि गुणवति समानजातीये सर्वगुरुवृत्तिः प्राप्ताऽनेन विशेषेणावस्थाप्यते । अध्यापयन्गुरुसुतो गुरुवन्मानं पूजामईति नानाध्यापयन् । ननु च विद्याग्रहणनिमित्तत्वाद्गुरुवृत्तिरध्यापयद्गुरुव गुरुपुत्रेऽप्यध्यापयितरि प्राप्तैव शैशवब्राह्मणनिदर्शनात्कनीयसोऽपि सिद्धेत्यतो " बालः १० समानजन्मा वा" इत्येवमर्थमपि न वक्तव्यम् । सत्यम् । यो वेदं वेदैकदेशं वाऽध्यापयति तस्यानाचार्यस्याप्येषा वृत्तिरुक्ता । अयं तु न ग्राहकः केवलं कतिचिदहान्यह गं वा. ऽध्यापयति अतो नाचार्यो नोपाध्याय इत्यप्राप्तौ विधिरयम् । अस्मादेव वचनादन्यस्य भग्नमन्त्रादेरध्यापकस्य न सर्वा गुरुवृत्तिः कर्तव्येति विज्ञायते । ये च पूर्वत्राचार्यशब्द पठन्ति तेषामुत्तरार्थमिदमनूद्यते । " उत्सादनं चेति " वक्ष्यति । शिष्यो वा यज्ञकमणि । यज्ञकर्मग्रहणं प्रदर्शनार्थ क्वचिदङ्गे वेदैकदेशे मन्त्रभागे कस्मिंश्चिद्राह्मणभागे वा तथापि गुरुवत्पूज्यः यदि तु गुरुपुत्रः । तस्मादनेन प्रकारेण कांचिद्विद्यां शिक्षेत तदा तेन तस्मिन्गुरुववर्तितव्यमित्युक्तमेवमर्थवादत्वादस्यारम्भस्य । ये तु व्याचक्षते अध्याप यन्नित्यनेनाध्यापनसामर्थ्य लक्ष्यते अध्यापनसमर्थश्चेदध्यापयतु मा वाऽध्यापयेत् गृहीतवेद. २० श्चेद्गुरुवद्दष्टव्यः तेषां शाब्दमेतद्व्याख्यानं सत्यं भवति । शता लक्षणार्थः से तु क्रियायाः लक्षणहेत्वोः क्रियाया ( व्या. सू. ३।२।१२६ ) इति । क्रिया चात्र श्रुता । गुरुवन्मानमर्हति ॥ २०८ ॥ उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने। न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ।। २०९ ॥ २५ अभ्यक्तस्योद्वर्तनमुत्सादनं न कुर्यात्। गुरुपुत्रस्य पादयोश्चावनेजनं प्रक्षालनम्। अस्मादेव प्रतिषेधाद्गुरावेतदनुक्तमपि कर्तव्यतया प्रतीयते । यदा तु गुरुपुत्र एव गुरुः संपद्यते कृत्स्नवेदाध्यापनोपयोगितया तदा स्वनिमित्तं तत्रोच्छिष्टभोजनाद्यस्ति तदनेन प्रतिषिध्यते । आतिदेशिकस्यानेन निषेधो नौपदेशिकस्य ॥ २०९ ॥ १ अग्रे २०९ श्लोके । २ फ-तत्तु । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy