SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७० www. kobatirth.org मेधातिथिभाष्यसमलंकृता । [ द्वितीयः कामिन्याः स्थितं गुर्वाराधनपरत्वाच्छुश्रूषाकलापस्य येन चित्तखेद आशङ्कयते स निषिध्यते अतः स्त्रिया इत्येवं व्याख्यातम् । यानं गन्त्र्यादि। आसनं पीठिकामञ्चादि । ततोऽवरुह्यावतीर्याभिवादयेत् । २० Acharya Shri Kailassagarsuri Gyanmandir शय्यासनस्थ इत्यत्रासनादुत्थानमुक्तमनेनावरोहणं विधीयते मञ्चाद्वाऽऽसनादुत्था ९ नमनवरोहतोऽपि संभवति अवरोहणं तर्हि अनुत्थितस्य च न संभवत्यतोऽनेनैव सिद्धे शय्यासनेत्यत्रासनग्रहणमनर्थकम् । नानर्थकं यदि शिष्यः पराङ्मुखः प्रत्यग्देशादागतं । गुरुं मन्येत तदासनस्थ एव संभ्रमपरावृत्तस्तदभिमुखीभूत उत्तिष्ठेन्न तत्थायाभिपरावर्तेत े तथा ह्युत्थानक्रियया संमुखीभवनं व्यवधीयेत ततः कुप्येद्गुरुः । पराङ्मुखस्योत्तिष्ठतो गुरुरेवमपि मन्येत नायं ममाभ्युत्थितो निमित्तान्तरकृतमेवास्याभ्युत्थानं तस्मादर्थवदुभयत्रा१० प्यासनग्रहणम् ॥ २०२ ॥ प्रतिवातानुवाते च नासीत गुरुणा सह ॥ असंश्रवे चैव गुरोर्न किंचिदपि कीर्तयेत् ॥ २०३ ॥ 1 यस्यां दिशि गुरुर्व्यवस्थितस्ततो देशाद्यदा वायुः शिष्यदेशमागच्छति शिष्यदेशात् गुरुदेशं ते प्रतिवातानुवाते । एकं प्रतिवातमपरमनुवातम् । ११ तदपेक्षया गुरुणा सह नासीत अपि तु तिर्यग्वातसेवी गुरोर्भवेत् । अविद्यमानः संश्रवो यत्र तस्मिन्नसंश्रवे न किंचिदपि गुरुगतमन्यगतं वा कीर्तयेत् । यत्र गुरुर्व्यक्तं न शृणोति ओष्ठसंचलनादिना शिष्यसम्बन्धि नाजानाति किंचिदयमेतेन संभाषते तन्न कीर्तयेत् ॥ २०३ ॥ गोश्वोष्ट्रयानमासादमस्तरेषु कटेषु च ॥ आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २०४ ॥ 1 - यानशब्दः प्रत्येकमभिसंबध्यते । गोश्वोष्ट्रैर्युक्तं यानं गोश्वोष्ट्रयानम् । दधिवटा 2 दिवत्समासे युक्तशब्दस्य लोपः । केवलेषु तु अश्वपृष्ठादिष्त्रारोहणं नास्ति । यदि स्वत: न्त्रो यानशब्दो विज्ञायेत तदा स्यादप्यनुज्ञा । समाचारात्तु कादाचित्कमनुज्ञानं दृश्यते । प्रासाद उपरिगृहादीनां या भूमिस्तस्यां गृहादिभूमिवत्सिद्धं सहासनम् । प्रस्तरः दर्भा२५ दितृणाकीर्णः । आस्तरः कटः न तु शरवीरणादिकृतः प्रसिद्धः । शिला गिरिशिखरादावन्यत्र वा। फलकं दारुमयमासनं पोतवर्तादि । नौर्जलतरणसंप्लवः । तेन पोतादावपि सिद्धं भवति ॥ २०४ ॥ 1 १ फ-प्रतिवातेऽनुवाते । २ स्रस्तरेषु इत्यपरः पाठः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy