SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। १६९ नोदाहरेदस्य नाम परोक्षमपि केवलम् ॥ न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ १९९ ॥ नोदाहरेन्नोच्चारयेदस्य गुरोर्नाम केवलं उपाध्यायाचार्यभट्टाद्युपपदरहितं परोक्षचपि । न चैवास्यानुकुर्वीत सदृशं न कुर्यान्नाट्यकार इव । गतिः एवमस्मद्गुरुरपगामति । भापितं द्रुतविलम्बितमध्यमत्वादि । चेष्टितं एवं भुक्ते एवमुष्णीषं बध्नाति एवं ५ ररिवर्तत इत्यादि । उपहासबुद्धयाऽयमनुकरणप्रतिषेधः ॥ १९९ ॥ गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते ॥ कर्णी तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ २० ॥ यंत्र देशे दुर्जनसंपाते गुरोः परीवादः संभूतदोषानुकथनं निन्दा अविद्यमामानां दोषाणामभिधानं प्रवर्तते तत्र कर्णो पियातव्यावगुल्यादिना संवरीतव्यौ । ततः १० प्रदेशाद्वाऽन्यत्र गन्तव्यम् ॥ २० ॥ परीवादात्खरो भवति श्वा वै भवति निन्दकः ॥ परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ २०१॥ पूर्वप्रतिषेधे शेषोऽयमर्थवादः। अत एवं व्याख्येयं परीवादाच्छ्रुत्वा खरो भवति । हेतौ ल्यप्लोपे वा कर्मणि पञ्चमी परीवादं श्रुत्वा । निन्दको निन्दाश्रावी उपचारान्निन्दक १५ उच्यते । तथा संस्कर्ताऽवघातकः श्रवणनिषेधादेत साक्षात्करणनिषेधसिद्धिः । परिभोक्ता यो गुरुमुपजीवति कुसृत्याऽनुवर्तते । मत्सरी गुरुसमृद्धिमभ्युच्चयं न महतेऽन्तर्दह्यते । अनयोरप्राप्तत्वादपूर्वो विधिः । परिवादपरीवादयो ‘र्घञमनुष्ये बहुर्लमिति "। दीर्घत्वादीर्घत्वे ॥ २०१॥ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ॥ यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ २०२ ॥ अत्र परप्रेषणेन गन्धमाल्यादेरर्पणं प्रतिषिध्यते । स्वयंकृते परेण च कारित तुल्यं कर्तृत्वं प्रयोजकेऽपि कर्तृत्वस्मरणादित्येतया बुद्ध्या प्राप्ते परमुखेनार्चने प्रतिषेधः । अशक्तौ ग्रामान्तरस्थस्य न दोषः । ग्रामान्तरं गच्छत्युपाध्याये भवानभिवादयतां स गत्वा मातुल. मभिवादयत इत्यादिव्यवहारदर्शनात् । न क्रुद्धः गुरौ क्रोधासंभवादन्यनिमित्तेऽपि क्रोधे २५ पूनाकाले तत्त्यागेनायं प्रसादोऽभिधीयते । क्रुद्धमित्यन्ये पठन्ति । नान्तिके समीपे स्त्रियाः १ परोक्षं सत्कृपापूर्व प्रत्यक्षं न कथंचन ॥ दुष्टानुचारी च गुरोरिह वामुत्र चेत्यधः ॥ २ “ उपसर्गस्य घनमनुष्ये बहुलमिति " (व्या. सू. ६।३।१२२) २२ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy