________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ द्वितीयः प्रथमं पूर्व गुरोरुत्तिष्ठेत् । चरमं पश्चात्स्वापकाले सुप्ते गुरौ संविशेच्छय्यां समाश्रयेदासने चोपविशेत् ॥ १९४ ॥
प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ॥ नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥१९५॥ .
प्रतिश्रवणमाहूयमानस्य कार्ये नियुज्यमानस्य गुरुसंबन्धिवचनाकर्णनम् । संभाषा गुरुणा सहोक्तिप्रत्युक्तिकरणम् । ते प्रतिश्रवणसंभाषे । शयानः स्वे स्रस्तरे निक्षिप्तगात्रो न समाचरेन्न कुर्यात् । नासीन आसने चोपविष्टः । न भुञ्जानः न तिष्ठन्नेकस्मिन्नेव देशेऽविचलन्नूज़ स्थितः न पुनः पराङ्मुखः यस्यां गुरुर्दृश्यते ततः परावृत्य स्थितो न कुर्यात् ॥ १९५ ॥
आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः ॥ प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावस्तु धावतः ॥ १९६ ॥
कथं तर्हि आसीनो यदाऽऽज्ञां ददाति तदा स्थित आसनादुत्थाय प्रतिश्रवणसंभाषे कुर्यात् । अभिगच्छंस्तु तिष्ठतः तिष्ठन्गुरुर्यदाऽऽदिशति तदाऽऽभिगच्छंस्तदभिमुखः
कतिचित्पदानि गत्वा आव्रजत आगच्छतः प्रत्युद्गम्याभिमुखमेव गत्वा प्रतिराभिमुख्ये १५ धावतो वेगेन गच्छतः पश्चाद्धावन् पश्चाद्वा वसतस्तथा ॥ १९६ ॥
पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ॥
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ १९७॥
तथा पराङ्मुखस्य गुरोः संमुखोपविष्टः शिष्यः यदि गुरुः परावृत्य कथंचिस्थितः प्रेष्यति तां दिशं गत्वाऽभिमुखीभूय पूर्वोक्तं कर्तव्यम् । दूरस्थस्य समीपं २० अन्तिकं एत्यागत्य प्राप्यासीनस्यापि शयानस्य प्रणम्य प्रबो भूत्वा गात्राण्यवनमय्य निदेशे निकटे तिष्ठतोऽपि प्रणम्यैव यत्प्रागुक्तमभिगच्छन्निति ॥ १९७ ॥
नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ ॥ गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १९८ ॥
नीचमनुन्नतं गुरुशय्याद्यपेक्षया च नीचत्वम् । नित्यग्रहणाद्ब्रह्मचर्यादुत्तरकाल२५ मपि गुरोश्च दृष्टिगोचरे नास्थातव्यम् । गुरुः पश्यति तत्र न यथेष्टमासीत पादप्रसारणाङ्ग
निषङ्गादिना । आसनग्रहणं चेष्टामात्रोपलक्षणार्थम् । यथेष्टचेष्टो न भवेत् ॥ १९८ ॥
For Private And Personal Use Only