________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः कः पुनरत्र गौणोऽर्थः कार्य प्रसाधये य एवाग्निर्माणवक इत्यादिषु नैवं शुक्लो माणवके तद्गुणदर्शनात् ।सर्वत्र हि साधारणगुणयोगाद्गौणार्थावगतिः। ते च गुणाः प्रत्यक्षा धवसेयाः । इह तु देवतार्थस्य कार्यावगम्यत्वात्कार्यतः स्वरूपविशेषानवगमात्कुतः प्रतिकृतिषु साधारणगुणावसायः । अत्रोच्यते । मन्त्रार्थवादेषु तथाविधरूपश्रवणात्तेषां च गुणवादेन व्याख्यानम् । तन्मूलमपश्यन्तो यथाश्रुतार्थग्राहिणस्ताद्रूप्यमिन्द्रादिषु प्रतिपाद्यमानाः प्रतिकृतिषु सादृश्यमपश्यन्तीति युक्तैव गौणता ।
यत्तु श्राद्ध एव वैश्वदेवब्राह्मणभोजनं दैवदेवत्यमाचक्षते तेषां पित्र्याङ्गत्वात् । तस्य पित्र्यग्रहणेन गृहीतत्वादनर्थकं पुनर्वचनम् । सामान्यशब्दत्वाच्च क्रतोविशेषावगति
साहचर्यादितिवत् । यदि च पित्र्यशब्देन ग्रहणं भवेद्गोबलीवर्दन्यायोऽपि असति विषय१० भेदे भवति ॥ १८९॥
ब्राह्मणस्यैव कमैतदुपदिष्टं मनीषिभिः । राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते ॥ १९० ॥
यदेतदेकान्नमोजनकर्मादिष्टमेतद्ब्राह्मणस्यैव मनीषिभिर्विद्वद्भिर्वेदादुपलभ्योपदिष्टं क्षत्रियवैश्ययोस्तु नैतदिच्छन्ति न कदाचित्तयोरभैक्षभोजनम् । १५ ननु च श्राद्धभोजने ब्राह्मणानामेवाधिकारो " ये तत्र भोजनीयाः स्युर्ये च वा
द्विजोत्तमाः। अर्हत्तमाय विप्राय" इति वचनाद्राह्मणस्यैव प्रतिग्रहाधिकारं तत्र कुतोऽयं प्रतिषेधो राजन्यवैश्ययोरिति प्रतिप्रसवश्वायं नापूर्वविधिः । प्राप्तिसव्यपेक्षाश्च प्रतिषेधा भवन्ति । उच्यते । भुक्तवतां ब्राह्मणानामेव शिष्टस्यान्नस्य प्रतिपत्तिराम्नाता — ज्ञातिप्रायं
प्रकल्पयेत् । इति । न च तत्र जात्यपेक्षा यस्य ज्ञातिः स तेन भोजयितव्यः । न च २० तत्र क्षत्रियादयः प्रतिग्रहीतृतया संबध्यन्ते अपि तु ज्ञातयः । अतोऽस्याः प्राप्तेः प्रतिषेधः ॥ १९० ॥
चोदितो गुरुणा नित्यमप्रचोदित एव वा ॥ कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥ १९१॥
नोदितो गुरुणाऽनियुक्तोऽपि कुर्यादध्ययने योगं यत्नम् । ननु चाहूतोऽधीत २५ इत्युक्तं कथमप्रणोदितस्य योग उच्यते । गृहीतवेदैकदेशस्य परिशेषकगुणार्थमेतदुच्यते ।
न तत्राचार्यनियोगोऽपोक्षतव्यः । एवमाचार्याय हितं यदुदकुम्भाहरणादि श्रान्तसंवाहनादि तदप्यनियुक्तेन कर्तव्यम् ॥ १९१ ॥ १फ-विधेः।
-
For Private And Personal Use Only