________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ] मनुस्मृतिः ।
११५ न पूजाविधिः पूज्यमानमन्तरेण संभवति । देवताश्च पूज्यत्वेन श्रुतास्तत्र यदि देवतार्थे मुख्येन पूजा संभवति तदा याग एव पूजा विज्ञेया । तस्य चारूपत्वादसति द्रव्यदेवताश्रवणे पूर्वाह्नकालविध्यर्थोऽयमनुवादो विज्ञेयः । अतः पूर्वाह्ने दैवतानि कर्तव्यानीत्युक्तं भवति ।
किमुच्यते देवता न श्रूयते यावता न साक्षाद्देवताशब्दोऽस्ति नायं सामान्यवचनो देवतार्थः यासामन्यत्र देवतात्वं दृष्टं तासामेतत्पूजाविधानम् । तेनाग्निरादित्यो रुद्र इन्द्रो विष्णुः सरस्वतीत्येवमादयः पूज्याः । पूजार्थं च धूपदीपमाल्योपहारादीनां निवेदनम् । तत्राग्नेस्तावत्साक्षात्संबन्धः । तच्चादित्यस्य दूरदेशवर्तित्वाच्छुचावकाशे तदुद्देशेन गन्धादिप्रक्षेपः । इन्द्रादीनां स्वरूपस्याप्रत्यक्षत्वादिन्द्रादिशब्दोद्देशेनैव तथा विधानम् । यद्यपि पूज्यमानप्रधाना पूजा तथापि हि पूज्यमानानां कार्यान्तरशेषाभावे पूजैव कर्तव्यतया १० विज्ञायते । द्रव्यप्रधाने हि न विधिविषयत्वसंभवः " तानि द्वैध गुणप्रधानभूतानि " इति ।" यैस्तु द्रव्यं चिकीर्ण्यते " इति न्याय्यं तु स्तुतिशास्त्रादिवत् । यथा न स्तुतिः स्तुत्यर्था एवमियमपि पूजा न पूज्यार्था । स्तौतिशंसत्योर्निर्देशो नास्तीति चेत् , अत्रोक्तं द्वितीया । सक्तुषु दर्शनात् । एवं मृदं गां दैवतं प्रदक्षिणानि कुर्वीतेति दक्षिणाचारता विधीयते । दक्षिणेन दैवानि कर्माणि कर्तव्यानि । न हि मृदादि तद्देवताया दक्षिणेन १५ मार्गेण स्थानममूर्तत्वात् ।
युज्यते एवं दैवतान्यभिगच्छेदिति । पादविहारव्यापारेण देवतासमीपप्राप्त्यसंभवाद्गमेश्च ज्ञानार्थत्वादभिगमनं स्मरणात्किं विशिष्यते । देवता अभिगच्छेत्कर्मकाले मनसा ध्यायेच्चित्तव्याक्षेपतामाकुलताख्यां परिहरेदित्यर्थः । तथा चोपलभ्यमानमूलैवेयं स्मृतिर्भवति । यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेदिति ।
ननु चैतदप्युद्देश्यत्वान्यथानुपपत्तेः प्राप्तमेव स व्याक्षेपस्याकुलस्य च संभवाददोषः । एवं देवस्वं देवपशवो देवद्रव्यमित्यादयो व्यवहारास्तादोनोपकल्पितेषु पश्चादिषु द्रष्टव्याः ।
दण्डाधिकारे तु प्रतिकृतिविषयमेव देवताव्यवहारमिच्छन्ति । अन्यथा व्यवस्थामङ्गः स्यात् । कल्पितदेवतारूपाणां प्रतिकृतीनां कल्पितेनैव स्वस्वामिभावेन यत्संबन्धि त. २५ देव " देवब्राह्मणराज्ञा तु द्रव्यं विज्ञेयमुत्तमम्" इत्यादिषु देवद्रव्यम् । न हि देवतानां स्वस्वामिभावोऽस्ति मुख्यार्थासंभवागौण एवार्थो ग्राह्यः ।
२०
१ फ-न्यायात्स्तुतिशास्त्रादिवत् ।
For Private And Personal Use Only