SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ मेधातिथिभाष्यसमलंकृता । [ द्वितीयः तत्फलं या पितुः प्रीतिः उभयथा पितृकर्तृगामिता फलस्य न विरुध्यते । अपत्योत्पादनेनैवैतादृशस्य फलस्येष्टत्वात् । पितॄणामपि नाकामितफलापत्तिः । यदि न श्राद्धेन पितरो देवताः कथं तर्हि पित्र्यमेतत्कर्मेति देवतातद्धितः । अनुद्देश्यत्वसामान्यादिति वदामः । युष्मदुपकारार्थमिदं ब्राह्मणभोजनमिति पितर उप५ दिश्यन्ते । पिण्डपितृयज्ञे तु पितरो देवता एव न श्राद्धे पितॄणां देवतात्वं मन्यन्ते 1 यत्तु ब्राह्मणा भोज्यन्ते तद्यथाऽग्नौ होमाज्यपुरोडाशादीनां वदानस्य तादृशमेतत् । तथा च ब्राह्मणाः पितृत्वमापद्यन्त अतोऽन्नपरिवेषणकाले पितर एवोद्देश्या युष्मभ्यमिदं न मैंमेति । ब्राह्मणास्त्वाहवनीयस्थानीयाः । एतावान्विशेषो यदाहवनीये हविः प्रक्षिप्यते ब्राह्मणानां तु सन्निधाप्यते, ते तु स्वयमुपाददत इति । १० 1 न च यागो न देवतार्थः स्वाहाकारः स्विष्टकृदादिषु दर्शनात् । अतो यागोऽपि सन् श्राद्धकर्म पित्र्यर्थं भविष्यति पितॄणां देवतात्वं फलभावित्वं न निरोत्स्यते । तृतीये किंचिदनुत्तमेव तत्संबद्धं वक्ष्यामः । तस्मान्नादित्यादयो ब्राह्मणभोजने देवता इति स्थितम् । ननु चाव्यापकमेतदपि लक्षणम् यागे उद्देश्यः । देवतेत्यन्तरेणापि यागसंबन्धे ११ देवताव्यवहारदर्शनात् । " देवतानां च पूजनं " दैवतान्यभिगच्छेदिति न यागो नाप्याभिमुख्येन गमनं पादविहारात्मकं देवताः प्रतिसंभवति । नैष दोषः । यत्र देवताचोदना तत्रैतत्पूजाविधानं भविष्यति वैश्वदेवदेवतास्वग्निहोत्रादिसंबन्धिनीषु वा । ननु चैवमपि नोपपद्यते । न हि देवतायाः पूज्यत्वं संभवति स्वरूपहानिप्रसङ्गात् । पूजाकर्मत्वेऽपि यागसंप्रदानता स्यात् । उक्तम् । " न क्रियान्तरस्य किंचिद्भवति " २० इति । शक्तिर्हि कारकं सा च प्रतिक्रियं विभिद्यते । कार्यावगम्यत्वाच्च तस्या याव - कार्य भेदो न्याय्यः । अतो यत्संप्रदानं तत्संप्रदानमेव, न तस्य कर्मापत्तिः । कथं तार्ह ' पाचकाय देहि ' पचेः कर्ता ददातेः संप्रदानम् । “ शरैः क्षताङ्गः प्रियया कटाक्षैर्निरीक्ष्यमाणो विवशो जगाम " । उक्तोऽत्र परिहारः । शक्तिशक्तिमतोर्भेदस्यौपचारिकत्वात्सिद्धं ' व्रजति भुक्त्वेति ' । तस्माद्यदि पूजाविषयमेतत् न देवतालाभः, २५ अथ देवता आदित्यादयो न पूजाविधिः । न हि देवतायां सिद्धायामुद्दिश्य पूजा विधीयते । न ह्यादित्यादीनां देवतासामान्यशब्दो गोशब्दवच्छागलेयादीनाम् । अत्रोच्यते । सत्यं नादित्यादयः स्वरूपतो देवताः संबन्धिशब्दोऽयं विधित एव नार्थोऽवगन्तव्यो “यस्य हविषश्चोद्यते सा तस्य देवता " इति । स एवाग्निराग्नेयादन्यत्र न देवतेत्युक्तम् । किंतु १ फ-द्रव्यदानस्य । २ ब-ड-ममेति । ३ फच्छागमेषायादीनाम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy