________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः स्वयं याचेत । तस्य व्रतवद्रताविरुद्धमधुमांसवर्जितमित्यर्थः । व्रतवदृषिवदिति च शब्दद्वयेनैक एवार्थ उच्यते न पुनीमारण्ययोः कर्मभेदेन व्यवस्था । वृत्तानुरोधात्तु द्विरभिधानम् । ऋषिवैखानसस्तदशनाभ्यनुज्ञाने मांसमपि ब्रह्मचारिणोऽनुज्ञातं स्यात्तस्य हि · वैष्णवमप्युपभुञ्जीत" इति मांसाशनमप्यस्ति । देवा देवता यस्य तद्देवदैवत्यं तच्चाग्निहोत्रदर्शपूर्णमासादिषु देवेषु कर्मसु ब्राह्मणभोजनमाम्नातम् । आग्रहायण्यादिषु त्वाम्नातं ब्राह्मणाभोजयित्वा स्वस्त्ययनं वाचयेदिति । तत्रेयमनुज्ञा ।
अन्ये तु सप्तम्यादावादित्यादिदेवोद्देशेन यत्क्रियते ब्राह्मणभोजनं तद्देवदेवत्यं मन्यन्ते तदसत् । न हि भुजेदेवतासंबन्धोऽस्त्ययागसाधनत्वात्तस्य । न तुद्देशमानं
देवता । उपाध्यायाय गां ददाति गृहं संमार्टीत्युपाध्याये गृहेऽपि प्रसङ्गात् । भुर्हि १० प्रत्यक्षो भोक्त्रा संबन्धः आदित्यस्तु न कारकं न चोद्देश्यो गृहवत् न तदर्थ भोजनम् ।
द्वितीया हि भोक्त्रर्थतां ज्ञापयति नादित्यार्थताम् । न चैतत्क्वचिन्नोदितमादित्यायुद्देशेन ब्राह्मणान्भोजयेदिति ।
समाचाराविधिः। करप्यत इति चेन्न । तस्योपलभ्यमानमूलत्वात् । अस्ति हि मूलं बाह्याः स्मृतयः । तत्र तर्हि ब्राह्मणभोजनेन देवताः प्रीणयदिति शास्त्रार्थः । न चायमर्थः शक्यः कल्पयितुम् । न हि देवताप्रीतिप्रधानः शास्त्रार्थः, किं तर्हि विध्यर्थप्रधानः । न चास्मिविध्यर्थ आदित्यादीनां देवताभिमतानां विषयद्वारकः संबन्धो नाप्यधिकारद्वारकः । न हि भेदनादिवन्निमित्तं नापि पश्वादिवत्स्वसंवन्धितया काम्यते । अभोग्यरूपत्वात् ।
अथ तद्गता तुष्टिः काम्यते साऽप्यात्मसिद्धौ प्रमाणान्तरमपेक्षते । न च तदस्ति । न ह्यादित्यादितुष्टिः प्रत्यक्षादिसिद्धा पश्वादिवद्येन काम्येन परेष्टिविधिना युज्येत । २० अथ तु मत्प्रभुरिति स्वाभिप्रेतेन फलेन योजयिष्यतीति । एतदपि प्रमाणाभावा
दुपेक्षणीयम् । न चास्मिन्नर्थे विधिः प्रमाणं स हि ज्ञातस्यानुष्ठातृविशेषणस्य स्वसंबन्धितया पुरुषं नियुक्त न पुनः काम्यमानस्य सद्भावमवगमयति । प्रमाणान्तरावगतं हि काम्यमनुष्ठातृविशेषणमनुष्ठातृसंबन्धीति विधिः प्रमाणं मिमीते।
अथायं यागस्तस्य च भोजनं प्रतिपत्तिर्भवतु यदि शिष्टसमाचारः । भोजनं २५ तावन्न देवतासंबन्धिसाक्षादिति न साध्यम् । यागव्यवहितस्तु संबन्धो न निवार्यते ।
न चात्र यागबुध्या प्रवर्तते किं तर्हि ब्राह्मणेषु भोजितेषु देवता तुष्यतीति । अतो न देवता भोजनकारकं न कारकविशेषणम् । ततो न विषयो न हि संबन्धः । उद्देश्यत्व1 उ-याचेत् । २ फ-व्रतविरुद्धम् । ३ ब-उ-कारणं ।
For Private And Personal Use Only