________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः । अकृत्वा भैक्षचरणमसमिध्य च पावकम् ॥
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ १८७॥ अग्नीन्धनभैक्षचरणे नैरन्तर्येण सप्तरात्रं सप्ताहमकृत्वा नियम्य विच्छिद्यते । कालो नियतस्तु तयोरपि । अनातुरस्याव्याधितस्य सतोऽवकीर्णिव्रतं नाम प्रायश्चित्तमेकादशे (श्लो. ११८) वक्ष्यमाणस्वरूपं चरेत्कुर्यात् । दोषगुरुत्वख्यापनार्थ त्वेतदत्र प्रायश्चित्तमेव। ५ स्मृत्यन्तरे ह्यत्राल्पमन्यत्प्रायश्चित्तमुक्तम् । 'आज्यहोमः सवितुर्वा रेतस्यास्याम्' इति । इहापि च लिङ्गं यदि प्रायश्चित्तमिदमभविष्यत्तदा स्त्रीगमनमिवावकीर्णिप्रायश्चित्तप्रकरणे निमित्तत्वेनापठिष्यत् । ये तु व्याचक्षते सप्तरात्रमेतदुभयमवश्यकर्तव्यमकरणात्तत्र दोषः कृतसप्तरात्रस्य तु परतोऽक्रियायां न दोषस्तानि च सप्ताहानि प्राथम्यादुपनयनात्प्रभृति गृह्यन्ते तदेतदयुक्तम् ‘आ समावर्तनात्कुर्यादिति ' विरोधात् । उपरितनानन्तर- १० श्लोकविरोधाच्च ॥ १८ ॥
भैलेणं वर्त्तयेन्नित्यं नैकान्नादी भवेद्वती ॥
भैक्षेण तिनो वृत्तिरुपवाससमा स्मृता ॥ १८८ ॥ ननु च भैक्षमहरहश्चरेदिति श्रुतमेवैतत् । एवं हि भैक्षचर्या दृष्टार्था भवति । उक्तं च “ निवेद्य गुरवेऽश्नीयात्" इति । न च तदशनं भैक्षसंस्कारः येन वृत्त्यर्थः १५ स्यात् । केचिदाहुरनूद्यते नैकान्नादी भवेद्रतीति वक्तुमेतदप्यसत् । भैक्षशब्देनैवैकान्नादनस्य निषेधात् । भिक्षाणां समूहो भैक्षमुच्यते । ततः कुत एकान्नादनप्राप्तिस्तस्य पित्र्येऽभ्यनुज्ञानार्थ सर्वमेतदनूद्यते । भैक्षेण वर्तयेदात्मानं भैक्षभोजनेन पालयेत् । जीवितः स्थितिं कुर्यान्नैकस्य संबन्धि अन्नमद्यान्नैकभिक्षान्नं भुञ्जीत ।।
न पुनरियमाशङ्का कर्तव्या नैकस्वामिकं भुञ्जीत अपि तु बहुस्वामिकमविभक्तभ्रातृ- २० संबन्ध्येकस्यान्नमेकं वाऽन्नमेकान्नं तदत्ति भुते एकान्नादी । व्रती ब्रह्मचारी प्रकरणादेव लब्धः श्लोकपूरणार्थो व्रतिशब्दोऽर्थवादः । भैक्षेणैव केवलेन व्रतिनो या वृत्तिः शरीरधारणमुपवासतुल्यफला सा वृत्तिः स्मर्यते ॥ १८८ ॥
व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यर्षिवत् ॥
काममभ्यर्थितोऽश्नीयाह्नतमस्य न लुप्यते ॥ १८९॥ २५ अयमपवादो निमित्तविशेषे भैक्षवृत्त्युपदेशस्य । देवदैवत्ये देवोद्देशेन ब्राह्मणभोजने क्रियमाणे, पित्र्ये च पितृनुद्दिश्याभ्यर्थितोऽध्येषितः काममेकान्नमश्नीयात् न तु
१ [न भैक्ष्यं परपाकःस्यात् न च भक्ष्यं प्रतिग्रहः ॥ सोमपानसमभै क्ष्यं तस्माद्भेक्षण वर्तयेत् ॥ १॥ भक्ष्यस्यागमशुद्धस्य प्रोक्षितस्य हुतस्य च ॥ यस्तिस्य प्रसते ग्रासांस्ते तस्य ऋतुभिः समाः ॥२॥]
१
For Private And Personal Use Only