________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। एकः शयीत सर्वत्र न रेतः स्कन्दयेत्कचित् ॥
कामाद्धि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ॥ १८० ॥ एकः शयीत सर्वत्र न रेतः स्कन्दयेत्कचित् । अयोनावपि यौनौ स्त्रीप्रतिषेधादेव सिद्धत्वादत्रर्थवादः । कामाद्धि स्कन्दयन् । इच्छाऽत्र कामः हस्तव्यापारादिनाऽयोनौ मैथुनेन च रेतः शुक्रं स्कन्दयन् क्षरयन्हिनस्ति नाशयति ब्रह्मचर्यव्रत- ५ मात्मनः ॥ १८ ॥
स्वमे सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ॥
स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यूचं जपेत् ॥ १८१ ॥ कामाद्रतलोपो नावकीर्णिप्रायश्चित्तमकामात्त्विदमाह । स्वप्नग्रहणमविवक्षितमकामत १० इत्येतदेव निमित्तम् । न हि स्वप्ने कामसंभवः अतो यद्यसुप्तस्यापि कथंचिदनिच्छया स्वमलासृगवयववत्प्रक्षरति शुक्र तत्राप्येतदेव प्रायश्चित्तम् । अकामतो रेतः सिक्त्वेदं प्रायश्चित्तं कुर्यादित्येततृचं जपेत् ॥ १८१ ॥
उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ॥ आहरेद्यावदानि भैक्षं चाहरहश्चरेत् ॥ १८२ ॥
१५ यावद्भिरर्थः प्रयोजनमुपाध्यायस्य सिध्यति तावदुदकुम्भादि आहरेत् । प्रदर्शनार्थ चैतत् । अन्यदपि गृहोपयोगि यदगर्हित कर्म तत्कुर्याद्गर्हितं गुरुव्यतिरेकेणोच्छिष्टापमार्जनादि न कारयितव्य इत्येवमर्थोऽयं श्लोकः । यतः सामान्येन शुश्रूषा गुरौ विहिता । यावानर्थ एषामिति विग्रहः । भैक्षं चाहरहश्चरेसिद्धमन्नमत्यन्ताल्पं यात्राविषयं भैक्षमत्रोच्यते । नैकान्नादि प्रतिषेधेऽन्नशब्दोपादानादन्नं प्रतीयते। ' समाहृत्य भैक्षं निवेद्याश्नीयात्' २० इति सामानाधिकरण्यात्सिद्धान्नप्रतिपत्तिः । शुष्के ह्यन्ने भिक्षिते कुतस्तस्याशनम् । समाहृतस्य गुरुगृहे पच्यमानस्य भैक्षप्रकृतिता स्यान्न भैक्षता । प्रसिद्धया चेदृशमेव भैक्षमुच्यते । अहरहः । ननु भैक्षेण वर्तयेन्नित्यमित्येतस्मादेव सिद्धमहरहश्चरणं सिध्यति । वृत्तिविधानार्थ नित्यग्रहणम् । पर्युषितेनापि घृतादिस्नेहसंयुक्तेन स्यावृत्तिस्तदर्थ- २५ मिदमहरहभिक्षित्वाऽशितव्यम् । न पुनरेकस्मिन्नहनि भिक्षितमपरेयुः परिवास्य यत्किचित्स्नेहयुक्तमिति प्रतिप्रसवेन भुञ्जीत ॥ १८२ ॥
येभ्यो भैक्षमासादयितव्यं तान्वक्ति
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ॥ ब्रह्मचार्याहरेद्भक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ १८३ ॥ वेदयज्ञैश्च य अहीना वेदाध्ययनेन संयुक्ताः यज्ञानां च सत्यधिकारे कर्तार अहीनाs.
For Private And Personal Use Only