________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः
परुषा वाचो निषिद्धा भवन्ति । यदुक्तं गौतमेन (अ. २ सू. २५) 'शुक्ता वाच' इति । तदिदं सर्वग्रहणं चास्यैवार्थस्याविष्करणार्थम् । रसशुक्तान्यनूद्य सर्वाणीति विधीयते । ततो गौणपरिग्रहः सिद्धो भवति ।
ये त्वेवं व्याचक्षते शुक्तशब्देन रसप्रतिषेधः सर्वशब्देन मानसानि वचासि त इदं प्रष्टव्याः ।अर्थप्रतिषिद्धानां प्रतिषेधार्थं सर्वग्रहणं कस्मान्न भवति । तथा सति च दध्यादेः शुक्तीभूतस्य प्रतिषेधः प्राप्नोति । यदि तु प्राप्तिमाश्रित्य पुनः प्रतिषेध उक्तार्थो व्याख्यायते तथा सति न कश्चिद्दोषः ।
प्राणिनां मशकमक्षिकादीनां बाल्याद्धिंसने प्राप्ते यत्नतः परिहारार्थ पुनः प्रति. षेधः । स्वाध्यायविध्यङ्गत्वार्थो वा । न केवलं हिंसायां पुरुषार्थः प्रतिषेधातिक्रमो याव१० स्वाध्यायविध्यातिक्रमोऽपि । शुक्तादिष्वप्येवं कस्मान्न कल्प्यत इति चेदस्ति तत्र विषयान्तरे सावकाशत्वमेकरूपस्य विषयस्य व्यर्थत्वं सति गत्यन्तरे गरीयः ॥ १७७ ॥
अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् ॥ कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ १७८ ॥
घृततैलादिना स्नेहेन शिरःशरीरम्रक्षणमभ्यङ्गः । अञ्जनं चाक्ष्णोः । अक्षिग्रहणं १५ वृत्तपूरणार्थम् । अनयोश्चापि देहमण्डनार्थतया प्रतिषेधो नौषधार्थतया । गन्धमाल्यादि.
साहचर्यात् । उपानही चर्मपादुके न केवले छत्रधारणं च स्वहस्तेन परहस्तेन वोभयम्यापि निषेधः । कामो मन्मथस्य स्त्रीप्रतिषेधादेव सिद्धः । क्रोधो रोषः । लोभो मोहः । अहंकारममकारौ चित्तधर्मावते । नर्तनं प्राकृतपुरुषाणां हर्षाय गात्रविक्षेपो
भरतादिदृष्टाभिनयप्रयोगश्च । गीतं षड्जादिस्वरप्रदर्शनम् । वादित्रं वीणावंशादिभिः २० स्वरवच्छब्दकरणं पणवमृदङ्गाद्यभिघातश्च तालानुवृत्त्या ॥ १७८ ॥
द्यूतं च जनवादं च परिवाद तथाऽनृतम् ॥ स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥ १७९ ॥
द्यूतमक्षक्रीडा । समाह्वयः कुक्कुटादिभिः प्रतिषिद्धो द्यूतशब्दस्य सामान्यशब्दत्वात् । जनैर्वादः अकारणेन लौकिकेष्वर्थेषु वाक्कलहः । देशवार्ताद्यन्वेषणं प्रश्नो वा परि२५ वादः । अप्सूयया परदोषकथनमनृतमन्यथा दृष्टमन्यथा च श्रुतं यदन्यथोच्यते । सर्वत्र
वर्जयेदित्यनुषङ्गाद्वितीया । स्त्रीणां च प्रेक्षणालम्भौ अवयवसंस्थाननिरूपणं प्रेक्षणमिदपस्याः शोभतेऽङ्गमिदं नेति आलम्भ आलिङ्गनं मैथुनशङ्कायां चैतौ प्रतिषिध्येते बालस्य यथातथम् । परस्योपघातोऽपकारः कस्यांचिदर्थसिद्धौ प्रतिबन्धः कन्यालाभादौ पृच्छयमानेन प्रयोगस्याप्ययोगत्वं न वक्तव्यम् । तूष्णीमासितव्यमनृतप्रतिषेधात् ॥ १७९ ॥
For Private And Personal Use Only