________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ] मनुस्मृतिः।
१५७ शब्दार्थसंबन्धविदश्च स्मरन्ति ‘अग्निः अग्नीषोमौ मित्रावरुणौ इन्द्रो विष्णुः । इति । यद्येवं तक्रियासंबन्धितयैव तेषां देवतात्वं नार्थसंबन्धितया । तत्रापि यस्यैव हविषो या देवता तेन चोदिता तस्यैव सा भवति। तथा हि आग्नेयोऽष्टाकपाल इत्याग्नेये देवतापुरोडाशेन सौर्ये चरौ । अयं च तेषां निर्णयः मुख्यासंभवाद्गौणस्यैव ग्रहणं न्याय्यं समाचाराच्च । अतः प्रतिमानामेवैतत्पूजाविधानम् । यच्चात्र तत्त्वं तद्रतवद्देवदैवत्य इत्यत्र *वक्ष्यामः । ५ समिदाधानं सायंप्रातरग्नौ दारुशकलप्रक्षेपणम् ॥ १७६ ॥
वर्जयेन्मधु मांसं च गन्धं माल्यं रसान् स्त्रियः॥
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ १७७॥ मधु सारघम् । माध्वीकस्य तु मद्यत्वात्प्रागप्युपनयनात्प्रतिषेधो ‘नित्यं मद्य ब्राह्मणो वर्जयेत् । इति ।मांसं प्रोक्षिताद्यपि । गन्धशब्देन सुरभित्वातिशययुक्तानि कर्पूरा- १० गरुप्रभृतीनि द्रव्याणि सम्बन्धिलक्षणया प्रतिषिध्यन्ते । तेषामनुलेपनायुपभोगप्रतिषेधः । गन्धस्तु स्वदेशान्निर्गत आगच्छतीत्यशक्यो निषेद्भुम् । तत्राप्याकस्मिकस्याप्यप्रतिषेधात्। भोगेच्छया त्वगरुधूपादौ दोष एव । अत उपाध्यायेन चन्दनवृक्षादिच्छेदने नियुक्तस्य तद्गन्धस्याघ्राणे वस्तुस्वभावत उत्पद्यमाने न दोषः । माल्यसाहचर्याच्चेदृशो गन्धः प्रतीयते । यस्तु नेदृशो हृदयोन्मादकरः कुष्ठघृतपूतिदादिगन्धस्तस्य प्रतिषेधः । माल्यं १५ कुसुमं ग्रथितम् । रसाः मधुराम्लादयः ।।
ननु च नीरसस्य भोज्यत्वासंभवात्प्राणवृत्तिरेव न स्यात् । सत्यम् । उद्रिक्तरसाः केवला गुडादयो निषिध्यन्ते । संस्कारकरणे द्रव्यान्तर्गतानामपि प्रतिषेधः । अथवाऽत्यन्तमसंस्कृतस्यान्नस्य उक्तिप्रतिषेधेऽयम् । यथोक्तम् । “योऽहेरिव धनाद्भीतो मिष्टान्नाच्च विषादिव । राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति" इति । अन्ये तु २० शृङ्गारादीन्मन्यन्ते । नाटकादिप्रेक्षणेन काव्यश्रवणेन वा रसपुष्टिर्न वक्तव्या । अन्येषा तु दर्शनमिक्ष्वामलकादीनां योऽन्तर्द्रवरूपोदकवत् स रसस्तस्य निप्पीडितस्य प्रतिषेधो न पुनस्तदन्तर्गतस्य । तचैतदयुक्तम् । न हि रसशब्दो द्रवपर्यायः प्रसिद्धः । यत्र च यस्योचितमुपभोगान्तत्वं तदेव तस्य निषिध्यते । तेन मधुमांसयो जने प्रतिषेधो न दर्शनस्पर्शनयोः । गन्धमाल्यस्यापि शरीरमण्डनाभिमानतयोपादानं निषिध्यते, न तु कथं- २५ चिद्धस्तादिना ग्रहणम् । एवं स्त्रियो मैथुनसंबन्धेन । तदाशङ्कयैव च प्रेक्षणालम्भौ निषेत्स्यति। तथा च गौतमः ( अ. २ सू. २२ ) 'स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् । इति ।
शुक्तानि प्राप्तास्वरसानि केवलात्परिवासाद्रव्यान्तरसंसर्गाद्वाऽम्लतामापन्नानि । तेषां च द्विजातिधर्मत्वादेव सिद्धः प्रतिषेधः । पुनर्ग्रहणं गौणशुक्तपरिग्रहणार्थम् । तेन रूक्ष
* अग्रे १८९ श्लोके १ फ-कुसुमग्रथितम् । २ फ-अथच ।
For Private And Personal Use Only