________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः संयोगादिसहजं मलं तदशुचित्वमापादयति तद्धि नियतरूपमेव । तथा च ब्राह्मणं 'किं नु मलं किमजिनं किमु श्मश्रूणि किं तप' इति । धर्मसाधनतामेवंविधस्य मलधारणस्य दर्शयति । ___कथं पुनः स्नानस्य शौचार्थता प्रतीयते । न पुनः स्नातः शुचिश्चोभयविशिष्टो देवकार्ये विनियुज्यते । स्नातस्याशुचित्वाभावात्कृतशौचाचमनादेः स्नानविधानात्स्नात्वा चाऽऽचान्तः पुनराचामेदिति च स्नातस्यापि शुचिरित्येतावता यादृशी शुद्धिस्तस्यां विज्ञायमानायां स्नानमपि सति निमित्ते प्राप्तं पुनरुच्यते । स्मृत्यन्तरं चेदं सत्यशुचित्वे निमित्ते प्रतिषेधार्थम् । तथा च ' वेदमधीत्य स्नायादिति ' समाप्ते स्वाध्यायविधौ प्रतिप्रसविष्यति
कुर्याद्देवर्षिपितृतर्पणम् उदकदानं देवादिभ्यो गृहस्थधर्गेषु यदुक्तं तादृशमेव प्रतीयते तर्प१० णशब्दसाहचर्यात्। यदेव तर्पयत्यद्भिरिति तथा “देवतास्तर्पयति" (आश्व.गृ.३।४।३) इति
गृह्यकारैरुदकसाधनोऽयं विधिरुक्तः। उदकतर्पणमिति चैतत्संविज्ञायते। ते देवा गृह्यकारैः पठिता अग्निप्रजापतिब्रह्मेत्यादयः । तेषां च तर्पणं न सौहित्योत्पादनं किं तर्हि तदुद्देशेनोदकाञ्जलिप्रक्षेपः । अतोऽयमुदकद्रव्यको याग एवोक्तो भवति । न ह्यन्यथा देवतात्वं भवति । यागसंप्रदानं हि सेति स्मर्यते न तृप्तेः की ।
एतावद्धि देवतालक्षणम् । सूक्तभाजो हविर्भाजश्च देवताः । तत्र सूक्तं स्तुत्यतया भजन्ते हविः संप्रदानतया । तर्प्यत्वेन चोदकदानसंप्रदानतामेव गुणवृत्त्या वक्ति । गुर्वादिसंप्रदानं गवादिना तदुद्दिश्यमानं स्वाम्येन प्रतीयते देवताऽपि संप्रदानमतः संप्रदानत्वसाम्यात्तृप्यन्तीत्युच्यते । यदि देवतातृप्त्यर्थमेतत्स्यात्तदा संस्कारकर्मोदकतर्पणं स्यात् । न च देवतानां संस्कार्यत्वोपपत्तिः । न हि ताः क्वचिदुपयुक्ता उपयोक्ष्यन्ते।वा न वा कृताः करिष्यमाणकार्यस्य संस्कारतोपपत्तिः ।
ऋषयो ये यस्यायाः यथा पराशराणां वसिष्ठशाक्तपाराशर्येति । गृह्यकारैस्तु मन्त्रदृश ऋषयस्तर्पणीयत्वेनोक्ताः । मधुच्छन्दो गृत्समदो विश्वामित्र इति । अविशेषाभि
धानादृषिशब्दस्योभयेऽपि प्राप्ताः विशेषस्मृतित्वात् गृह्यस्मृतेस्त एव ग्रहीतुं न्याय्याः । २५ पितरः पूर्वप्रेताः पितृपितामहाः सपिण्डाः समानोदकाश्च । पितृणां तर्पणं तर्पणमेव । एतच्च श्राद्धविधौ प्रत्यक्षेण वक्ष्यते ।
देवताभ्यर्चनं अत्र केचिच्चिरन्तना विचारयांचक्रुः, का एता देवता नाम यासामिदमभ्यर्चनमुच्यते । यदि तावच्चित्रपुस्तकन्यस्तः चतुर्भुजो वज्रहस्त इत्याद्याः प्रतिकृतय
इति लौकिका व्यवहरन्ति अतो गौणस्तत्र देवताव्यवहारः । अथ याः सूक्तहविः३० संबन्धिन्यो वैदिकीभ्यश्चोदनाभ्यो मन्त्रवाक्येभ्यश्चावगम्यन्ते ।
२०
For Private And Personal Use Only