SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः । कर्तव्यतैवैषणा प्रतिपाद्यते । ततो ब्रह्मणो वेदस्य ग्रहणं क्रमेणानेन विधिपूर्वकमित्यर्थवादः श्लोकपूरणार्थः ॥ १७३ ॥ यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ॥ यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ १७४ ॥ गृह्यकारैर्ऋतनामधेयकानि कर्माण्युपदिष्टानि संवत्सरं वेदं भागं वा किंचिजिघृक्षत' ५ इयं व्रतचर्या यो यमनियमसमूहस्तत्र पूर्वव्रतसमाप्तौ व्रतान्तरारम्भे उपनयने ये विधयस्तादृश एव व्रतादेशेषु । अथ प्रागुपात्तानां का प्रतिपत्तिः । अप्सु प्रासनम् । ननु च तदुक्तं प्रागुपात्तानां विनष्टानां का प्रतिपत्तिः। विनाशे शास्त्रनोदितं चैषां कार्यमन्योपादानाच्च तेषां निवृत्तिः ।यचर्म यस्य ब्रह्मचारिणो विहितं यथा “कार्ण ब्राह्मणस्य रौरवं क्षत्रियस्य" इति। एवं दण्डादिष्वपि द्रष्टव्यम् । तस्य व्रतेप्वपि कृतत्वात्। व्रतशब्दो व्रतादेशे वर्तते ॥१७४॥ १० सेवेतेमांस्तु नियमान ब्रह्मचारी गुरौ वसन् ॥ सनियम्येन्द्रियग्रामं तपोटद्धयर्थमात्मनः ॥ १७५ ॥ वक्ष्यमाणस्य यमनियमसमूहस्य पृथक्प्रकरणत्वेन श्लोकोऽयं गौरवख्यापनार्थः । एवं तु यत्पूर्वमुक्तं तदवश्यकर्तव्यमिदं तु ततो गुरुतरमनुष्ठीयमानं महते फलाय । ब्रह्मचारिग्रहणं प्रकरणान्तरत्वेनातद्धर्माशङ्कयाऽनुसंधानार्थम् । यदि ब्रह्मचारिधर्म एव १५ आसीतिक तौंदमुच्यते प्रकरणान्तरमिति । पूर्वेभ्य एतेषामतिशयात्समानधर्मत्वादेतावता वैलक्षण्येन प्रकरणान्तरत्वव्यवहारः । परिशिष्टानि पदानि श्लोकपूरणार्थतयाऽनूद्यन्ते । सेवेत अनुतिष्ठेत । इमान्वक्ष्यमाणान् । बुद्धौ संनिहितत्वादिदमा निर्दिश्यन्ते । गुरौ वसन्गुरुसमीपे विद्याध्ययनार्थ वसन् । नियमानाह । संनियम्येन्द्रियग्रामं प्रागुक्तेन मार्गेण तपोवृद्धयर्थमध्यायविध्यनुष्ठानजन्यात्मसंस्कारार्थम् ।। १७५ ॥ तानीदानी प्रतिज्ञातान्पूर्वेण नियमानाह।। नित्यं स्नात्वा शुचिः कुर्यादेवर्षिपितृतर्पणम् ॥ देवताभ्यर्चनं चैव समिदाधानमेव च ॥१७६ ॥ प्रत्यहं स्नात्वा शुचिः स्नानेनापनीताशुचिभावो देवर्षिपितृतर्पणं कुर्यात् । यदि पुनर्न शुचिः तदाऽवश्यं स्नायात् । शुचिग्रहणेन शुद्धिहेतुतयाऽत्र स्नानस्योपदिष्टत्वान्न २५ स्नातकव्रतवत्तदनुष्ठेयम् । अत एव स्मृत्यन्तरे च स्नानं प्रतिषिद्धम् । स प्रतिषेधो मृदा स्नानस्य प्रसाधनलक्षणस्य । गौतमेन तु स्नानमेवं विहितम् । 'दण्ड इवाप्सु परिप्लवते ।। मलापकर्षणं करनिघर्षणादिना न कर्तव्यम् । असत्यमेध्यांदिसंसर्गे न यत्स्वेदनं वस्त्ररेणु १क्ष-ननु च तदुक्तं विनष्टानां प्रागुक्तानां सा प्रतिपत्तिः । २ फ-अस्यामेध्यादिसंसर्गेण । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy