________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४ मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः वेदप्रदानादाचार्य पितरं परिचक्षते । कृत्स्नवेदाध्यापनान्नोपनयनाङ्गभूतसावित्र्यनुवचनमात्रादेव । प्रदानं स्वीकारोत्पादनं वेदाक्षरोच्चारणे माणवकस्य । यद्येवं यावन्नाचार्येण पितृत्वं प्राप्तं तावन्न माणवको द्वितीयं जन्म समश्नुते । अप्राप्तद्विजभावश्च प्रागिवोपनयनात्कामचारः स्यादत आह । न ह्यस्मिन्प्राऔञ्जिबन्धनादस्य माणवकस्य किंचिकर्म श्रौतस्मातमाचारप्रतिष्ठं वाऽदृष्टार्थ प्रयुज्यते न तत्राधिक्रियते । उपनयनसमनन्तरमेव सर्वैहि जातिपुरुषधभैरधिक्रियते । नन्ववैद्यत्वात्तस्यामवस्थायां कथमधिक्रियतां एतदर्थमेवोक्तं "गुरौ शिष्यश्च याज्यश्चेति "। आचार्येणासौ शिक्षयितव्यः । तदुक्तं 'शौचाचारांश्च शिक्षयेत् ' । यथा च गौतमः । ( अ० २ सू. १ ० ) । 'उपयनादिर्नियम ' इति । आचार्यस्य तु वेदसमापनान्तो व्यापारः ॥: १७१ ॥
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ॥ शद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ १७२ ॥
आ मौजिबन्धनादित्यनुवर्तते । यदि वा यावद्वेदे न जायत इत्यर्थवादतोऽवधिपरिनिश्चयः । ब्रह्म वेदस्तन्नोच्चारयेत् । पितुरयमुपदेशः । यथा मद्यपानादिभ्यो रक्षेत्तथा
वेदाक्षरोच्चारणात् । केचित्त्विममेव ब्रह्माभिव्याहारनिषेधं प्रागुपनयनान्द्याकरणाद्यङ्गाध्ययने १५ ज्ञापकं वर्णयन्ति । णिजथै व्याचक्षते । पित्रा न वाचनीयः । बाल्यात्तु कानिचिदन्यक्तानि
वेदवाक्यानि स्वयं पठतो न दोषः । एतत्तु न युक्तम् । स्मृत्यन्तरे हि पठ्यते न ब्रह्माभिव्याहारयेदिति ' (गौ०अ०२ सू. ९)।अर्थवादे च श्रुतं शूद्रेण हि समस्तावदिति । यथा शूद्रो दुष्यति तद्वदयमपीत्युक्तं भवति । स्वधाशब्देन पितृभ्यः कल्पितमन्नमिहोच्यते। अथवा
पिण्यं कर्म स्वधाशब्देनोच्यते । तन्निनीयते त्यज्यते प्राप्यते येन मन्त्रेण स स्वधानि२० नयनः । “ शुन्धन्तां पितरः" इत्यादिस्तं वर्जयित्वाऽन्यमन्त्रो नोच्चारयितव्यः । अनुप
नीतेनोदकदाननवश्राद्धादि पितुः कर्तव्यमित्यस्मादेव प्रतीयते । पार्वणश्राद्धादौ त्वग्निमत्त्वामावादनधिकारः पिण्डान्वाहार्यकं हि तद्वक्ष्यते । तृतीये चैतन्निपुणमुपपाद. यिष्यामः ॥ १७२ ॥
कृतोपनयनस्यास्य व्रतादेशनमिष्यते ॥ ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ १७३ ॥
' उपनीय गुरुः शिष्यम्' इत्यनेन शौचाचाराध्ययनानां क्रम उक्तः । अतश्च तेनैव क्रमेण पठेत् । उपनयनानन्तरमध्ययने प्राप्ते क्रमान्तरार्थमिदमारभ्यते ।
उपनीतस्य त्रैविद्यादिवतं च कर्तव्यम् । ततः स्वाध्यायोऽध्येतव्यः । कृतोपनय३० नस्य ब्रह्मचारिणो व्रतादेशनमिष्यते क्रियते चाचायः । शास्त्रवशेनैवमिष्यते । अतश्च
१ क्ष-द्विजातिपुरुषधमैरधिक्रियते ।
For Private And Personal Use Only