________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः ]
मनुस्मृतिः । श्रमो यत्नातिशयस्तन्निषेर्धायोगात्तत्समाप्तौ यथावसरमन्यान्यपि विद्यास्थानानि पठ्यन्ते । शूद्रत्वप्राप्तिवचनं निन्दातिशयः । द्विन इति वचनादुपनीतस्यायं क्रमनियमः। प्राक् चोपनयनादङ्गाध्ययनमनिषिद्धं शिक्षाव्याकरणादि यद्वेदवाक्यैर्न मिश्रितम् ।
ननु च स्वाध्यायविधिनाऽङ्गान्याक्षिप्यन्ते तं च विधिमाचार्यप्रयुक्तो माणवकोऽनुतिष्ठति प्रागुपनयनादसत्याचार्ये कुतोऽङ्गाध्ययनसंभवः । नैष दोषः । तस्मादनुशिष्टं ५ पुत्रं लोक्यमाहुरिति पित्रा यः संस्कर्तव्यः स एनं प्रागुपनयनाव्याकरणाद्यध्यापयिप्यति ॥ १६८ ॥ द्विजातीनां तत्र तत्राधिकारः श्रुतस्तत्राचार्यादिशब्दवत्सुहृत्त्वात्तदर्थनिरूपणार्थमाह ।
मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ॥
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ १६९ ॥ १०
मातुः सकाशादग्रे आदावधिजननं जन्म पुरुषस्य द्वितीयं मौञ्जिबन्धने उपनयने । ‘ड्यापोर्बहुलम् ' ( व्या. सू. ६।३।६३ ) इति ह्रस्वः । तृतीयं ज्योतिष्टोमादियज्ञदीक्षायाम् । दीक्षाऽपि जन्मत्वेन श्रूयते पुनर्वारं तदृत्विजो गर्भ कुर्वन्ति यद्दीक्षयन्तीति । त्रीणि जन्मानि द्विजस्य श्रुतिनोदितानि । नन्वेवं सति त्रिजः प्राप्नोति । अस्तु । द्विजव्यपदेशे तावदुपनयनं निमित्तं तव्द्यपदेशनिबन्धश्च श्रौतस्मार्तसामयिकाचारिककर्मा- १५ धिकारः । प्रथमतृतीयजन्माभिधानं द्वितीयजन्मस्तुत्यर्थ सर्वजन्म श्रेष्ठं तत् । अदीक्षितो हि यज्ञ एव नाधिक्रियते अनुपनीतस्तु न क्वचिदेव । अन्ये त्वाद्यत्वसामान्यादाधानं यज्ञदीक्षां मन्यन्ते । तस्यापि जन्मसंभवोऽस्ति अजात एवासौ योऽग्नीन्नाधत्त इति ॥१६९॥
तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् ॥
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ १७० ॥ २०
तत्रैतेषु द्विजन्मसु यदेतद्ब्रह्मजन्म उपनयनं मौञ्जीवन्धनचिह्नितं मेखलाबन्धने नोपलक्षितम् । तत्रास्य माता सावित्री तया ह्यनूक्तया तन्निष्पन्नं भवति । अनेन च सावित्र्यनुवचनमुपनयने प्रधानं दर्शयति । तदर्थ ह्यसौ समीपमानीयते पिताऽऽचार्यः। मातापितृनिर्व] जन्म। अतो रूपकभङ्ग्या तत्राप्याचार्यसावित्र्यौ मातापितरावुक्तौ॥१७०॥ ___ मौञ्जीबन्धनचिह्नितमित्युक्तम् । तत्र रज्ज्वासञ्जनादाचार्यः पितृवन्मान्यः स्यात्त- २५ दर्थमुच्यते ।
वेदप्रदानादाचार्य पितरं परिचक्षते ॥
न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ॥ १७१ ॥ १ निषेधाच्च योगात् इत्यपरः पाठः ।
For Private And Personal Use Only