________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः । तस्मिन्संस्कारकत्वान्निव्यूढे निश्चितस्यैव फलवकर्मानुष्ठानोपयोगित्वान्निश्चयस्य विचारसाध्यत्वात्तस्य च नियतकालावश्यकर्तव्यताप्राप्तेस्तन्निवृत्त्यर्थं विचारपर्यवसायी विधिरयमवतिष्ठते। अतो भवत्याकाङ्क्षा नियमानाम् । किं श्रुताध्ययनपर्यवसानावधिरुताऽऽक्षिप्तनिश्चितावबोधजननार्थविचारपर्यवसानः । अतोऽस्यामपेक्षायां वेदमधीत्य स्नायादित्यनेनावधिसमर्पणं क्रियते । तत्र प्रकृतस्यापेक्षायाश्चाविशेषाद्युक्ता लक्षणा ।
ननु किमिदमुच्यतेऽश्रुतोवबोधः यावताऽधिगन्तव्य इति । श्रूयत एव वेदे स्मृतिषु चान्यासु · वेदमधीते स्वाध्यायोऽध्येतव्यः' इति च पठ्यते । मानव्या अपि स्मृतेरेतत्स्मृतिमूलत्वादभिन्नार्थतैव । आक्षिप्तावबोधाभिप्रायोऽयमधिगमो यदि वा स्वरूपग्रहणमेवाधिगमः अवबोधपर्यन्तता तु तेनैव न्यायेन लभ्यते न च विसमञ्जसमेकोऽयं विधिस्तस्य च विषयांशः कश्चिदाचार्यविधिना प्रयुज्यते कस्यचिदंशस्य स एव प्रयोजक १० इति वैरूप्यम् । किमत्रानुपपन्नमर्थभूतस्यैवावगमात् ।
यत्तूक्तमनेकवेदाध्ययनमदृष्टार्थ युक्तमिति तस्य षट्त्रिंशदाब्दिकमित्यत्र परिहारं वक्ष्यामः ।
वेदशब्दो मन्त्रब्राह्मणवाक्यसमुदायात्मिकां शाखामाचष्टे । तदवयवेऽपि वाक्ये वेदशब्दस्य प्रयोगदर्शनात् तदाशङ्कानिवृत्त्यर्थः कृत्स्नशब्दः । यद्यप्येकस्मिन्वाक्येऽधीते १५ वाक्यान्तरस्यापि वेदशब्दवाच्यत्वादेव निवृत्तमध्ययनं संस्कारकर्मत्वाद्हवत्तथापि विस्पष्टाथैकृत्स्नग्रहणम् । अन्ये त्वङ्गविषयं कृत्स्नशब्दं वर्णयन्ति । वेदशब्दो युक्तपरिमाणस्य वाक्यसमुदायस्य वाचकस्तत्र ऋडात्रेणापि न्यूनेन स्वाध्यायोऽधीतो भवति । तस्मात्कृत्स्नशब्दोऽङ्गाध्ययनप्राप्त्यर्थः । तथा च स्मृत्यन्तरं " ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय " इति ।
ननु यो वेदः स कृत्स्न इत्येतदत्र प्रतीयते । न चाङ्गानि वेदशब्दवाच्यानि तत्र कुताङ्गैः साहित्यं या त्वेषा स्मृतिः ‘पडङ्गो वेदोऽध्येय' इति तत्र स्वशब्देनाङ्गान्युपात्तानि इह तु वेदविशेषणत्वात्कृत्स्नशब्दस्य कथमिवाङ्गानि गृह्येरन् । उच्यते । स्वाध्यायोऽध्येतव्य इति मूलैवैषा स्मृतिः । सा चावबोधपर्यन्ता व्यवस्थापिता । अवबोधश्च नान्तरेणाङ्गानि कल्पत इत्यर्थसिद्धमङ्गानामुपादानम् । अतो निगमनिरुक्तव्याकरणमीमांसावेद- २५ नमपि विध्याक्षिप्तम् । एवमर्थमङ्गानामुपादानमङ्गीकृत्य कृत्स्नशब्दो द्योतकत्वेन युक्त उपादातुम् । तत्र यथाऽऽरम्भकाणि पुरुषस्य हस्तपादादीन्यङ्गान्युच्यन्ते नैवं वेदस्य निरुक्तादीन्यारम्भकाणि । अथ च भक्त्याऽङ्गत्वेन वेदस्योच्यन्ते न किल तैर्विना वेदः स्वार्थाय प्रभवत्यतोऽङ्गानीवाध्यासोऽत्र । एवमध्यारोपितवेदत्वेन कृत्स्नर्शब्द उपपद्यते ।
१ फ-ग्रहणवत्। २ अ क ड क्ष फ-कृत्स्नशब्दो नोपपद्यते ।
For Private And Personal Use Only