________________
Shri Mahavir Jain Aradhana Kendra
१५०
५
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः
प्रायश्चित्तम् । अथ व्रतस्थस्य हि रेतःसेको विकारो न च व्रतस्थश्चान्द्रायणादिना - Sनेनोपपातकप्रायश्चित्तेनाधिक्रियते ।
किं पुनः स्नायादिति लक्षणत्वे कारणमुच्यते । न तावदिदं स्नानमद्भिः शरीरक्षालनरूपमदृष्टार्थत्वप्रसङ्गात् । ब्रह्मचारिनियमानां चावध्यपेक्षत्वादस्य चावधिसमर्पकत्वेनापेक्षितार्थविधिनोपपत्तेः । न पुनरेवं तेषामवध्यन्तरापेक्षा । स्वाध्यायविध्यर्था हि तेऽतस्तन्नि वृत्तिरेव तेषामवधिः । तस्य च निवृत्तिर्विषयनिवृत्त्या । अध्ययनं च तस्य विषयः । तन्निवृत्तिः प्रत्यक्षैव ।
सत्यं यद्यस्य श्रुतविषयनिष्ठतैव स्यात् । अश्रुतोऽप्यस्य विषयः फलभूतोऽर्थाधिगमोऽपि संस्कारविधित्वान्यथानुपपत्त्या विषयतामापन्नो यतः श्रुताध्ययननिष्ठत्वे विधि१० त्वमेवास्य व्याहन्येत । विधेर्हि स्वार्थानुष्ठापकत्वं रूपम् । स्वार्थश्च कार्यकारणेतिकर्तव्यतात्मकः । तच्च विध्यर्थव्यतिरेकेण नान्यत्किंचिन्न कार्य करणं विषय एकपदोपादानात् । अधीयीतेत्यध्ययनादिः धात्वार्थावच्छिन्नो भावार्थः । यमनियमानुष्ठानमितिकर्तव्यता । न तत्र तावदस्य विधेः स्वार्थानुष्ठापकत्वसंभवः यतो विषयानुष्ठानद्वारिका सर्वाविधीनां स्वार्थानुष्ठानसंपत्तिः । तस्यास्य विषयानुष्ठानं विध्यन्तरवशादेव सिद्धम् । आचार्यस्य हि विधि - १५ रस्ति ' उपनीय शिष्यं वेदमध्यापयेत् ' इति । न चाध्यापनमन्तरेणाध्ययनसिद्धिः । अत आचार्यः स्वविधिसंपत्त्यर्थमध्ययने माणवकं प्रवर्तयति स्वयं च ज्ञात्वा नाचार्येणाप्रवर्तितस्यानुष्ठानसंभवः । अतोऽवश्यमाचार्यविधिप्रयुक्तता एषितव्या । तत्प्रयुक्तत्वे सति सिद्धमनुष्ठानमिति न स्वाध्यायाध्ययने माणवकस्य विधिना कश्चिदर्थः । अतः प्रयोक्तृत्वासंभवात्कीदृशी विधिरूपताऽस्य विधेः । स्वरूपनाशे प्रसक्ते स प्रकारोऽन्विष्यते, २० यथाऽस्य प्रयोक्तृत्वं लभ्यते । तत्र निश्चितस्तावदयं संस्कारविधिः । न च निष्फलः संस्कारः।अध्ययने सति यादृशस्य तादृशस्यार्थबन्धस्य दर्शनात्तस्य च सकलतत्कर्मानुष्ठानोपयोगित्वात् । अतः श्रुताध्ययनविषयसंबद्धावबोधकर्तव्यताऽतो विधिः प्रतीयते । यद्यपि च वस्तुस्वाभाव्येन वाक्यग्रहणसमनन्तरमवबोधो जायते न तु निश्चितरूपो भवति । अतो येन प्रकारेण निश्चयो भवति तस्मिन्नंशे विधेः प्रयोक्तृत्वम् । निश्चयो विचार्य संश२५ यादिव्युदासेन भवति । न च विचारोऽन्यतः प्राप्तः । नाचार्यविधेः तस्याध्ययनमात्रेण निवृत्तेः । नापि दृष्टकार्यप्रयुक्तः । किं विचारमन्तरेण पुरुषस्य न सिद्ध्येद्यदर्थं प्रवर्तेत ।
यदृच्छया ग्रामादिकामस्येव विचारोऽपि प्राप्त इति चेत् । एवं तर्ह्यनियतत्वात्पुरुषेच्छायाः कश्चिन्न विचारयेत् । यदि विचारयेन्नाध्ययनसमनन्तरम् । अतोऽस्यांशस्याप्राप्तत्वाद्यावदप्राप्तं विधेर्विषय इत्यस्ति विधेर्व्यापारः । तस्मादध्ययनस्यान्यतः प्राप्तत्वात्तत्सं३० बन्धस्यावबोधस्यानिश्चितरूपस्य वस्तुस्वाभाव्येनोत्पत्तेस्तादृशस्य न क्वचिदर्थवत्त्वात्सत्यपि
For Private And Personal Use Only