________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः । वाऽत्र विध्यन्तरं वेदानीत्यति तच्च फलकामस्य फलं च स्वर्गः । अथास्य विधेर्वाक्यशेषे किंचिदाम्नायते । घृतकुल्यादयोऽन्यद्वा ततस्तदेव भवितुमर्हति ब्रह्मचारिणो हि विधिरावबोधविषयो दृष्टप्रयोजनश्च । अवबोधस्य कर्मानुष्ठानोपयोगादर्थादर्शनाद्विदुषः कर्मण्यधिकारादेकैकवेदाध्ययनमदृष्टायैव अन्यथैकवेदाध्ययनेनैव स्वाध्यायविधिनिर्वृत्तेरसति धर्माय विधौ वेदानधीत्येत्यादिवचनमनर्थकमेव स्यात् ।
तत्रोच्यते । कथमयं पक्षः संगच्छेत यावतैकोऽयं विधिर्वेदोऽधिगन्तव्य इति । स चेत्संस्कारविधित्वादृष्टकर्मानुष्ठानोपयोगाच्च नादृष्टार्थः कल्प्यते तदनेकवेदाध्ययनेऽपि तुल्यम् । तत्रापि ह्ययं प्रकारोऽस्त्येव, वैरूप्यं च स्यात् । क्वचिदाधानविधिवदवबोधद्वारेण नित्यकाम्यकर्मसंबन्धः क्वचित्साक्षात्फलार्थतेति ।
अथ मतं वेदानधीत्येति विध्यन्तरमेतन्न वाऽऽचार्यकरणविधिप्रयोज्यम् । तत्फल- १. काम एवात्राधिक्रियत इति तदसत् । न चैतद्विध्यन्तरं प्रकृतस्यैव विधेरसत्यां संख्याविवक्षायां पञ्चषट्सप्तादिशाखाध्ययनं यावच्छक्तिप्राप्तं त्रयं नियमयति । न चाधीयीतेति विधिरत्र श्रूयते । अपि तु गृहस्थाश्रममावसेदित्ययमत्र विधिः । यदपि संख्याया विवक्षितत्वमुक्तं तदत्यन्तासंबद्धम् । विनियोगतो हि संख्याविवक्षा नोपपादनतः । स च विनियोगः स्वाध्यायार्थमध्ययनमाह, नार्थेन गुणभावेन द्वितीयान्ताभ्यामवगतं प्राधान्यमपैति । १५ एवं ह्याश्रीयमाणे ग्रहेऽप्येकत्वं विवक्ष्येत — ग्रहं संमार्टीति ' । प्रधानभूतस्यापि हितस्य संमार्ग प्रत्यस्त्येव साधनभावो न त्वसौ शब्देनाभिधीयते । तथा ग्रहैर्नुहोतीति होमेऽपि गुणभावः । तस्मादभिधानविनियोगाभ्यां प्राधान्यं स्वाध्यायस्य । सति च प्राधान्ये न विवक्षितमेकत्वम् । हन्त तर्हि योकेनापि वेदेन गृहीतेन निवर्तेत स्वाध्यायविध्यर्थो वक्तव्यमनेकवेदाध्ययनप्रयोजनम् । तृतीये वक्ष्यामः ।
ननु यद्यवबोधपर्यन्तोऽयं विधिस्तदा गृहीतेऽपि स्वरूपतो वेदे यावदर्थावबोधो न जातस्तावदन्तरा मधुमांसादियमनियमानुष्ठानमव्यावृत्तं स्यात् । तत्र को दोषः । शिष्टसमाचारविरोधः । न हि शिष्टा अधीते वेदे तदर्थमुपशृण्वन्तोऽपि मधुमांसादि वर्जयन्ति । नैष दोषः । अस्ति हि स्मृत्यन्तरं 'वेदमधीत्य स्नायात्' इति । तत्राधीत्येति पाठमात्रमुच्यते । स्नायादिति च स्वकालस्वाध्यायविध्यङ्ग्यमनियमनिवृत्तिर्लक्ष्यते । यथैव मधुमासे प्रतिषिद्धे २५ एवं स्नानमपि । तत्र स्नानमनुज्ञायमानं साहचर्यान्मधुमांसादीन्यपि तुल्यप्रकरणत्वादनुजानाति । स्त्रीसंप्रयोगस्तु वचनान्तरेणाविप्लुतब्रह्मचर्य इति प्रतिषिद्धः । तद्वयतिक्रमे च न स्वाध्यायविधेरावबोधकाले किंचित्परिहीणम् । न हि तस्यामवस्थायां तदङ्गं सर्वेषां यमनियमानां ग्रहणान्तत्वात् । पुरुषार्थस्त्वयं प्रतिषेधः । अत एव कथंचिद्विप्लवे नावकीर्ण
For Private And Personal Use Only