________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः
अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ॥ गुरौ वसन् सञ्चिनुयाब्रह्माधिगमिकं तपः ॥ १६४ ॥
संस्कृतात्मोपनीतो द्विनोऽनेन क्रमयोगेन तपः संचिनुयात् । अध्येष्यमाण इत्यत आरभ्य यद्ब्रह्मचारिणः कर्तव्यमुक्तं तस्य तेनेति प्रत्यवमर्शः । अनेन विधिसंघातेन ५ क्रमयोगेन क्रमेणानुष्ठीयमानेन तप आत्मसंस्कारं निष्कल्मषत्वलक्षणं यथा तपसा चान्द्रा.
यणादिना निष्कल्मषत्वं भवत्येवमनेनापि वेदग्रहणार्थेन यमनियमसमूहेन । अतः संचिनुयात् शनैरत्वरयाऽर्जयेच्च वर्धयेच्च । क्रमः परिपाटी इदं कृत्वेदं कर्तव्यम् । ॐकारपूर्विका इत्यादिः । तेन योगः संबंधो यस्यानुष्ठानस्येति यावत् । ब्रह्मणः आधिगमिकमधिगमार्थम् । अध्ययनबोधावधिगमः १६४ ॥
तपोविशेषैर्विविधैर्ऋतैश्च विधिचोदितः ॥ वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ १६५ ॥
तपोविशेषैः कृच्छ्चान्द्रायणादिभिर्विविधैर्बहुप्रकारैरेकाहारचतुर्थकालाहारादिमिरभिक्षिण्वता शरीरं व्रतैश्योपनिषदमहानाम्निकादिभिः विधिनोदितैर्गृह्यस्मृतिष्वाम्नातैरनुष्ठीय
मानैर्वेदः कृत्स्नोऽधिगन्तव्यः । ये तु पूर्वश्लोके तपः शब्दो ब्रह्मचारिधर्मे प्रयुक्त १५ इहापि तपोविशेषास्त एवाभिप्रेता इत्याहुन ते सम्यङ्मन्यन्ते । व्रतशब्देनैव तेषां संगृहीत
त्वात् । व्रतमिति हि शास्त्रतो नियम उच्यते । सामान्यशब्दत्वाच्च व्रतशब्दस्य महानाम्निकादीनामपि ग्रहणसिद्धिः । तस्मात्तपांस्युपवासादीन्यभिप्रेतानि ।
इह केचिद्वेद इत्यत्रैकवचनं विवक्षितं मन्यन्ते । यद्यपि तव्यप्रत्ययनिर्देशाद्विनियोगतो वेदस्य प्राधान्यं संस्कार्यतया प्रतीयते तथापि विधितो वस्तुतश्वार्थावबोधे गुणभाव एव । २० गुणे च संविवक्षितेऽर्थावबोधपर्यन्तो ह्ययं वेदविषयो माणवकस्य व्यापारो विधिवृत्तपर्यालो.
चनयाऽवसीयते । अयं ह्यत्र विध्यर्थोऽधीतेन वेदेनार्थावबोधं कुर्यान्न संस्कार्यत्वमन्यथा निर्वहति । सर्वो हि कार्यान्तरे शेषभूतः संस्क्रियते । वेदस्य च दृष्टमेव कार्यमधीतस्य स्वार्थबोधजनकत्वमन्यथा ' सक्तूजुहोति' इति वत्प्राधान्यं श्रुतमप्युत्सृज्येत । धातुरप्यव
बोधार्थ एव । अधिगमनं हि ज्ञानमुच्यते । “ सर्वे गत्यों ज्ञानार्था " इति स्मृतम् । २५ स्वरूपग्रहणं च वेदस्य प्रागेव विहितं 'संहत्य हस्तावध्येयम् ' इत्यादिना । तस्यैवार्थग्रहण
पर्यन्तताऽनेन प्रतिपाद्यते । विवक्षामेव मत्वाऽनेकवेदाध्ययनमप्राप्तं प्रतिप्रसविष्यते वेदानधीत्येति । यद्यप्यनेकवेदाध्ययनमस्ति कैकत्वविवक्षोपयुज्यते । बाढमुपयुज्यते । एकस्यामेव शाखायामधीतायां स्वाध्यायोऽध्येतव्य इति विध्यर्थनिवृत्तिः । इच्छातस्त्वनेकवेदाध्ययनं यदि न विधिचोदितं क उन्मत्तो दन्तकलशिकयाऽऽत्मानं क्लेशयिष्यति । अस्त्ये.
For Private And Personal Use Only