________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७
अध्यायः ]
मनुस्मृतिः । अन्ये तु वेदान्तान् रहस्यब्राह्मणान्व्याचक्षते तेषु यदभ्युपगतं फलं नित्यानां कर्मणां निष्फलानां च यमनियमाना तत्फलं ब्रह्मप्राप्तिलक्षणं सर्वमाप्नोति। कथं पुनर्नित्यानि ब्रह्मप्राप्त्यर्थानीति चेदस्ति केषां चिद्दर्शनम् । अथवा वेदस्यान्तोऽध्यापनसमाप्तिस्ततो यत्फलमाचार्यकरणविधिस्तत्प्राप्नोति । एवं तु व्याख्यानेऽध्यापनविध्यर्थतैव स्यात् ॥ १६० ॥
नारुन्तुदः स्यादातॊऽपि न परद्रोहकर्मधीः ॥ ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ १६१॥
अयमपरः पुरुषार्थमात्रधर्मः। अरूंषि मर्माणि तुदति व्यथयीत्यरंतुदो मर्मस्पर्शिनीर्वाचोऽत्यन्तोद्वेजनकरीराक्रोशवाचो यो वदति । आर्त्तः पीडितोऽपि परेण न तादृशमप्रियं भाषेत । तथा परद्रोहः परापकारः तदर्थ कर्म तद्धीश्च न कर्तव्या । अथवा १० परद्रोहश्चासौ कर्म च तत्र धीः बुद्धिरपि न कर्तव्या । यया वाचा नर्मप्रयुक्तयाऽपि पर उद्विजते अथ च तां वाचं नोदीरयेत् । वाक्यैकदेशमपि तादृशं नोच्चारयेद्यत एकदेशा. दर्थप्रकरणादिनाऽर्थान्तरसूचनं प्रतीयते । यतः सा गागलोक्या स्वर्गादिलोकप्राप्तिप्रतिबन्धिनी ॥ १६१ ॥
संमानाब्राह्मणो नित्यमुद्विजेत विषादिव ॥
अमृतस्येव चाकाझेदवमानस्य सर्वदा ॥ १६२ ॥ भिक्षमाणस्य ब्रह्मचारिणो गृहे वोपाध्यायस्य जीविकयाऽध्यापयतो यत्र संमानं न स्यान्न तेन चित्तसंक्षोभमाददातापि तु संमानादेवोद्विजेत पूजयैव दीयमानं न बहु मन्येत । अमृतमिवाकाङ्क्षदभिलपेदवमानमवज्ञां सर्वदा । उत्कण्ठासामान्यात् अधीतात्त्वर्थमाका रारोप्य पष्ठी कृता। ननु चानर्चितमभोज्यं सत्यं चित्तसंक्षोभप्रतिषेधार्थमेतत् । २० न तु तादृशम्य भोज्यतोच्यते । संमानावमानयोः समेन भवितव्यं न पुनरवमानं प्रार्थनीयम् । ब्रह्मचारिणस्त्ववमतमपि भिक्षाऽऽदानम् न चायं प्रतिग्रहो योऽर्चितं प्रतिगृह्णातीत्येतस्य येन विषयः स्यात् ॥ १६२ ॥
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ॥
सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ १६३ ॥ २५ पूर्वस्य विधेरर्थवादोऽयं फलदर्शनार्थः । योऽवमानान्न क्षुभ्यति स सुखं शेते । अन्यथा द्वेषेण दह्यमानो न कथंचिन्निद्रां लभते प्रतिबुद्धश्च तच्चिन्तापरो न सुखं विन्दति । उत्थितश्च शयनात्कार्येषु सुखं चरति ॥ १६३॥
१ अ ड क्ष-तेषांचिद्दर्शनम् । २ अधीगर्थत्वमिति समीचीनः पाठः " अधीगर्थदयेशां कर्मणि" व्या. सू. ( २।३।५२ )। आकांक्षेदारोप्य ।
For Private And Personal Use Only