SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । १४५ परतां बोधयति । यतः परतः श्रूयते बाल इत्येतेन शब्देनाज्ञमात्रः । अतश्च बालशब्दाद्वितीयाया अभावः । छान्दोग्ये शैशवं ब्राह्मणमेतद्वस्तुतः स्मृतिकारेण वर्णितम् ॥ १५३॥ न हायर्न पलितैर्न वित्तेन न बन्धुभिः॥ ऋषयश्चक्रिरे धर्म योऽनूचानः स नो महान् ॥ १५४ ॥ इयमपराऽध्यापकप्रशंसा । हायनशब्दः संवत्सरपर्यायः । न बहुभिवषैः परिणत- ५ वया महापूज्यो भवति न पलितैः केशश्मश्रुरोमभिः शुक्लैर्न वित्तेन बहुना न बन्धुभिः प्रागुक्तानि मान्यस्थानान्यापद्यन्ते । समुदितैर्न महान्भवति किं तर्हि एकयैव विद्यया। यस्मादृषयश्चक्रिरे ऋषिर्दर्शनात् निःशेषवेदार्थदर्शिनो निश्चित्येमं धर्म व्यवस्थापितवन्तः । योऽनूचानः अनुवचनमध्यापनं कृत्स्नाङ्गस्य वेदस्य स नोऽस्माकं महाञ्छ्रेष्ठः । करोति व्यवस्थापने वर्तते नाभूतजनने ॥ १५४ ॥ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः॥ वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ १५५ ॥ अयमप्यर्थवाद एव । यदुक्तं वित्तादिभ्यः समुदितेभ्यः केवलाऽपि विद्या ज्यायसीति तदेव सप्रपञ्चमनेन निर्दिश्यते । ब्राह्मणानां ज्ञानेन ज्यैष्ठ्यं न वित्तादिभिः, क्षत्रियाणां वीर्यतः वीर्य द्रव्यस्य कौशलं दृढप्राणता च, वैश्यानां धान्यधनतः १५ धान्यस्य पृथगुपादानाद्धनशब्दो हिरण्यादिवचनः ब्राह्मणपरिव्राजकवत् । बहुधनो वैश्यः स ज्येष्ठः । आद्यादित्वात्तृतीयार्थे तसिः । हेतौ तृतीया (व्या. सू. २।३।२३) ॥ १५५ ।। न तेन वृद्धो भवति येनास्य पलितं शिरः॥ यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः॥ १५६ ॥ न तेन वृद्ध उच्यते येनास्य पलितं धवलं शिरः शिरःस्थाः केशाः । कथं तर्हि २० यो वै युवाऽपि तरुणोऽपि अथ चाधीते तं देवाः स्थविरं विदुः ब्रुवते । देवाः किल सर्वस्य वेदितार इति प्रशंसा ॥ १५६ ॥ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः॥ यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥ १५७ ॥ इयमध्ययनाध्येतृस्तुतिः । काष्ठमयो वारणो यः क्रियते क्रकचादिना हस्त्याकृतिः २१ स यथा निष्फलो न हस्तिकार्य राज्ञां शत्रुवधादि करोति एवं यो ब्राह्मणो नाधीते स काष्ठतुल्यो न क्वचिदधिकारी । चर्ममयो मृगः चर्मविकारोऽन्योऽपि यो मृगः स निष्फलो नाऽऽखेटकादिकार्य करोति । त्रय एते नाममात्रं बिभ्रति न तस्यार्थम् ॥ १५७ ॥ १ख-अज्ञमाहुः। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy