SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ मेधातिथिभाष्यसमलंकृता । [द्वितीयः ब्रह्मग्रहणार्थ जन्म ब्राह्ममुपनयनं तस्य कर्ता । स्वधर्मस्य शासिता उपदेष्टा वेदार्थव्याख्यानेन । स तादृशो बालोऽपि ब्राह्मणो वृद्धस्य ज्येष्ठस्य तर्ककलाशास्त्रस्य वा यदल्पं वा बहु वा तेन पिता भवति । पितृतुल्या तत्र वृत्तिः कर्तव्या ज्येष्ठेनापि । कथं पुनः कनीयाञ्ज्येष्ठमुपनयते अष्टमे त्युपनयनं यावच्च नाधीतश्रुतवेदस्तावन्नाचार्यकरणविधावधिक्रियते । एवं तर्हि नोपनयनमंत्रं ब्रह्म जन्म किं तर्हि स्वाध्यायग्रहणमेव । तस्य कर्ताऽध्यापयिता । स्वधर्मस्य वेदार्थस्य शासिता व्याख्याता पिता भवति । धर्मतः पितृधर्मास्तत्र कर्तव्याः । धर्मत इति धर्मनिमित्तं तत्र पितृत्वम् । न च ते धर्मा अध्यापकव्याख्यात्रोः पितृसंबन्धिनः सिद्धाः सन्ति । अतो विधीयते ब्राह्मणवत्क्षत्रिये वर्तितव्यमिति ॥ १५० ॥ अध्यापयामास पितृन् शिशुराङ्गिरसः कविः ॥ पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ १५१॥ पूर्वस्य पितृवद्वृत्तिविधरर्थवादोऽयं परकृतिनामा । अङ्गिरसः पुत्रः कविर्नाम शिशुबोलः पितृतुल्यान्पितृव्यमातुलतत्पुत्रादीनधिकवयसोऽध्यापयाञ्चकाराध्यापितवान् । स चाह्वाननिमित्तेषु तान्पुत्रका आगच्छत इत्याजुहाव । ज्ञानेन परिगृह्य तान्स्वीकृत्य शिष्या१५ कृत्वा ॥ १५१॥ ते तमर्थमपृच्छन्त देवानागतमन्यवः ॥ देवाश्चैतान् समेत्योचुयाय्यं वः शिशुरुक्तवान् ॥ १५२ ॥ ते पित्रादिस्थानीया पुत्रका इत्याबानेनागतमन्यव उत्पन्नक्रोधास्तमर्थ पुत्रशब्दाह्वानं देवान्पृष्टवन्त अनेन बालेन वयमेवमाहूयामहे किमेतद्युक्तं ते देवाः पृष्टाः सन्तः २० सर्वे समवायं कृतवन्तः समेत्य ऐकमत्यं स्थापयित्वैतान्कवेः पितनचुरुक्तवन्तो न्याय्यं युक्तं वो युष्मान् शिशुरुक्तवान् ॥ १५२ ॥ अज्ञो भवति वै बालः पिता भवति मन्त्रदः॥ अझं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ १५३॥ यस्मान्न च वयसा स्वल्पेन बालो भवति किं तयज्ञो मूल् वृद्धोऽपि यः । मन्त्रद २५ उपलक्षणम् । मन्त्रान्वेदान्यो ददात्यध्यापयति विवृणोति च स पिता भवति । वै शब्द आगमान्तरसूचकः । देवानामप्येष आगमः पुराण एव । तथा चैतिह्यसूचकः परोपदेश आहुरिति । अझं मूर्ख बालमित्याहुरस्मत्पूर्वेऽपि पितेति मन्त्रदम् । इतिकरणं स्वरूप१फ-व्याख्यांशैः २ ड-क्ष-विधीयन्ते । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy