SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ( वार्तिकं व्या. सू. २।१।६० ) । अस्मिन्समासे उपनयनं ब्रह्मजन्म । अथवा ब्रह्मग्रहणमेव जन्म । तद्विपस्य शाश्वतं नित्यं प्रेत्योपकारकमिह चोपकारकम् ॥ १४६ ॥ ___ कामान्माता पिता चैनं यदुत्पादयतो मिथः ॥ . संभूतिं तस्य तां विद्याधद्योनाव भिजायते ॥ १४७॥ श्लोकद्वयमर्थवादः । मातापितरौ यदेनं दारकमुत्पादयतो अनयतो मिथो ५ रहसि परस्परं तत्कामाद्धेतोर्मन्मथपरवशौ संभूतिं तस्य तां विद्यात् तस्य दारकस्य । संभवोत्पत्तिर्यद्योनौ मातकुक्षावभिजायतेऽङ्गप्रत्यङ्गानि लभते । संभवश्च येषां भावानां ते तथैव विनश्यन्ति । अतः किं तेन संभवेन यस्यानन्तरभावी विनाशः ॥ १४७ ॥ आचार्यस्त्वस्य यां जाति विधिवद्वेदपारगः ॥ उत्पादयति सावित्र्या सा सत्या साऽजरामरा ॥ १४८ ॥ १० आचार्यात्तु यत्तस्य जन्म तदविनाशि । गृहीते वेदेऽवगते च तदर्थे कर्मानुष्ठानास्वर्गापवर्गप्राप्तिरित्यस्य सर्वस्याचार्यमूलत्वात्स श्रेष्ठः । यां जातिमुत्पादयति यं संस्कार मुपनयनाख्यं द्वितीयं जन्मेति जन्मसंस्तुति निर्वतयति सावित्र्या तदनुवचनेन सा जातिः सत्या साऽजरामरा । यद्यप्येतेऽभिन्नार्थाः शब्दास्तथापीहोपनयनाख्यस्य जन्मनो मातृजन्मनः सकाशाद्गुणातिशयविवक्षायां प्रयुक्ताः । न हि जरामृत्यू प्राणिनामिव जातेः १५ संभवतः । अविनाशित्वं त्वेकेनैव शब्देन शक्यते प्रतिपादयितुम् । न च तत्प्रतिपाद्यते वेदपारग आचार्यों यां जातिं विधिवत्सावित्र्या उपनयनाङ्गकलापेन सावित्रीशब्दस्य तल्लक्षणत्वात् उत्पादयति सा श्रेयसीति पदयोजना । जातिर्जन्म ॥ १४८ ॥ अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः॥ तमपीह गुरुं विद्याच्छुतोपक्रियया तया ॥ १४९॥ य उपाध्यायो यस्य माणवकस्योपकरोति श्रुतस्य श्रुतेनेत्यर्थः । अल्पं वा बहु वा क्रियाविशेषणमेतत् । तमपि स्वल्पश्रुतोपकारिणं गुरुं विद्यात् । एवं तु योजना ज्यायसी। यस्य श्रुतस्य सामानाधिकरण्ये वेदविषयस्य वेदाङ्गविषयस्य वा शास्त्रान्तरविषयस्य तर्ककलाशास्त्रस्य यदल्पं बहु वा तेनोपकरोतीत्यध्याहारः । श्रुतं च तदुपक्रिया चासौ श्रुतोपक्रिया तया उपकारक्रियया तद्धेतुत्वाच्छुतमुपक्रियेति सामानाधिकरण्यम् । गुरु- २५ वृत्तिस्तत्र कर्तव्या तद्व्यपदेशो वा तत्राचार्यादिशब्दवत्स्मयते ॥ १४९ ॥ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ॥ बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ १५० ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy