________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः
OMB PETE
निरुक्तकारः " अध्यापिता ये गुरुन्नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा"। नाद्रियन्ते अवज्ञां कुर्वन्ति “ यथैव ते शिष्या न गुरोर्मोजनीयाः न भोगाय कल्पन्ते तथैव तान्न भुनक्ति " । श्रुतं तत्पाठान्तरमातृणत्तीति । अर्थकर्णी भिनत्ति विध्यतीत्युपमयाऽध्यापनपते। "अविद्धकर्णः किल सस्मृतो नरः श्रुतं न यस्य श्रुतिगोचरं गतम्" इति । साध्यापकानामीचायपाध्यायगुरूणामयं कृतविद्यस्यापि द्रोहप्रतिषेधः ॥ १४४ ॥
Bोव्यायानेशाचार्य आचार्याणां शतं पिता ॥
"सहसं तु तन्माता गौरवेणातिरिच्यते ॥ १४५ ॥ अधिक जाननेण प्रकृष्टपूर्वविधानम् । उपाध्यायाच्छ्रेष्ठ आचार्यस्तस्मात्पिता ततोऽपि
मौतति मौदिसंख्यानिर्देशः स्तुतिमात्रम् । पूर्वस्मात् पूर्वस्मात्परस्य परस्यातिशयो १० विवक्षित अत एव सहस्रं पितुरिति वचनम् । उपाध्यायान्दशातिरिच्यते । दशभ्य
उपाध्यायेभ्योऽधिकः । कथं पुनरत्र द्वितीया । अतिरयं. कर्मप्रवचनीयः । उपाध्यायानति क्रम्यातिक्रम्यातिरिच्यते गौरवेण सातिशयेन युज्यते । अथवाऽऽधिक्यमतिरेकः तद्धेतुकेऽभिभवे धातुर्वर्तते । गौरवाधिक्येनोपाध्यायानभिभवति । अतिरिच्यत इति कर्मकर्तरि
द्वितीया चाविरुद्धा ' दुहिपच्योर्बहुलं सकर्मकयोः । (वार्तिकं व्या. सू. ३।१।८७) इति १५ बहुलग्रहणात् ।
ननु चानन्तरमेव वक्ष्यति “गरीयान् ब्रह्मदः पिता" इति,इह चाचार्यात्पितुराधिक्यमुच्यते तदितरेतरव्याहतम् । नैष दोषः । इहाचार्यो नैरुक्तदर्शनेनाध्यापकः संस्कारमात्रेणाचारोपदेशमात्रेण चाभिप्रेत आचार्य आचारं ग्राहयतीति । न चैष नियमः स्वशास्त्र
सिद्धाभिरेव संज्ञाभिर्व्यवहारः । गुरुशब्दो ह्यत्र पितरि परिभाषित आचार्ये च तत्र तत्र २० प्रयुज्यते । तेन स्वल्पोपकारादुपनयनमात्रकरादाचारग्राहकादध्यापनरहितादिदं पितुर्व्याय
स्त्वम् । अस्मिंश्च क्रमे विवक्षिते समवाय एतेषां माता प्रथमं वन्द्या ततः पिता तत आचार्यस्तत उपाध्यायः ॥ १४५ ॥
मुख्याचार्यसन्निधौ पितरि च संस्कर्तरि सन्निहिते तत्र क्रमः । अत आह उत्पादकब्रह्मदात्रोगेरीयान् ब्रह्मदः पिता ॥ ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ १४६॥
उत्पादको जनकः ब्रह्मदाताऽध्यापकः तौ द्वावपि पितरौ तयोः पित्रोगरीयापिता यो ब्रह्मदः । अतः पित्राचार्यसमवाये आचार्यः प्रथममभिवाद्यः । अत्र हेतुरूपमर्थवादमाह । ब्रह्मजन्म हि ब्रह्मग्रहणार्थ जन्म ब्रह्मजन्म, शाकपार्थिवादित्वात्समासः १“ कर्मप्रवचनीययुक्ते द्वितीया " ( व्या. सू. २॥३८) २ अग्रे १४६ श्लोकः ।
For Private And Personal Use Only