________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः ।
निषेकादीनि कर्माणि यः करोति यथाविधि ॥ संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥ १४२ ॥
1
निषेकग्रहणात्पितुरयं गुरुत्वोपदेशः । निषेको रेतःसेकः स आदिर्येषां कर्मणाम् । आदिग्रहणात्सर्वे संस्कारा गृह्यन्ते । तानि यः करोत्यनेन च यः संभावयति संवर्धयति । चैवेनामिति वा पाठ: । अर्थस्तु स एव । अन्नेनैव । संभावनोपपत्तेः । अर्थान्तरनिर्देशः एनं ५ कुमारम् । ननु चान्वादेशः न चेह कुमारस्य पूर्वमुपदेशः । नैवं कस्यान्यस्य निषेकादिनि क्रियन्ते तानि यः करोति सामर्थ्यादपि निर्देशो न निर्देशत एव । एवमाभ्यां गुणाभ्यां हीनः केवलजनकत्वे पितैव भवति न गुरुः । न चैवं मन्तव्यमसति गुरुत्वे नासौ मान्यः सर्वप्रथममसावेव मान्यः । तथा च भगवान्व्यासः “ प्रभुः शरीरप्रभवः प्रियकृत्प्राणदो गुरुः । हितानामुपदेष्टा च प्रत्यक्षं दैवतं पिता " इति ॥ विप्रग्रहणं प्रदर्शनार्थम् ॥ १४२ ॥ १० अन्याधेयं पाकयज्ञाननिष्टोमादिकान्मखान् ॥
यः करोति तो यस्य स तस्यत्विगिहोच्यते ॥ १४३ ॥ आहवनीयादीनामनीनामुत्पादककर्माग्न्याधेयमुच्यते । 'वसन्ते ब्राह्मणोऽनीनाद
१४१
धीत' इति विहितम् । पाकयज्ञा दर्शपूर्णमासादयः । अग्निष्टोमादयो मखाः सोमयागः । मखशब्दः क्रतुपर्यायः । एतानि कर्माणि यस्य यः करोति स तस्यत्र्त्विगित्युच्यते । १५ यस्य तस्येतिशब्दौ संबन्धिता दर्शयतः । यस्यैवैतानि कर्माणि करोति तस्यैवासावृत्विगुच्यते नान्यस्य । स त आचार्यादयः सम्बन्धिशब्दाः । वृतः प्रार्थितः शास्त्रीयेण विधिना कृतवरणः । मान्यताप्रसङ्गादृत्विक्संज्ञोपदेशोऽत्र न हि ब्रह्मचारिधर्मेषु ऋत्विजामवसरः । आचार्यादिवत्पूज्य इत्यस्मिन्नवधौ तल्लक्षणमुच्यते ॥ १४३ ॥ य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ||
For Private And Personal Use Only
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदाचन ॥ १४४ ॥ श्रवण ब्रह्मणा वेदाध्यापनेनावृणोति स माता स पिता ज्ञेयः । मध्यापकस्य मातापितृशब्दवाच्यताविधानम् । आचार्यादिशब्दवत्प्रसिद्धार्थौ हि पितृमातृशब्दौ । जनकः पिता । जननी माता । उपचारेणाध्यापकस्तुत्यर्थं प्रयुज्येते । यथा गौर्वाहीक इति । लोके ह्यत्यन्तोपकारकौ मातापितरौ प्रथितौ तौ हितं जनयतो भक्तादिना च पुष्णीतः २५ स्वशरीरानपेक्षमपि पुत्रहिते प्रवर्तेते । अतो महोपकारकत्वात्ताभ्यामुपाध्यायः स्तूयते । यो विद्यायामुपकरोति स सर्वोपकारकेभ्यः श्रेयान् । अवितथं क्रियाविशेषणमेतत् । अवितथेन सत्येन ब्रह्मणाऽनक्षरविस्वरवर्णितेन तन्न दुष्येत । अपकारो द्रोहस्तदुपरि अवज्ञानं च कदाचन निष्पन्नमपि ग्रन्थग्रहणे तदुत्तरकालमपि न दुह्येत । तथा च १ ख - जनकत्वेऽपि नैव भवति गुरुः ।